________________
९०
कातन्त्रव्याकरणम्
[ रूपसिद्धि ]
१. सर्वस्मिन् । सर्व + ङि । सर्वनामसंज्ञक अकारान्त 'सर्व' शब्द से परवर्ती सप्तमी विभक्ति - एकवचन 'ङि' प्रत्यय के स्थान में प्रकृत सूत्र द्वारा 'स्मिन् ' आदेश | २. विश्वस्मिन् । विश्व + ङि । पूर्ववत् 'ङि' को 'स्मिन् ' आदेश || १०६ | १०७. विभाष्येते पूर्वादिः [ २।१।२८ ]
[ सूत्रार्थ ]
पूर्वादि गणपठित शब्दों से परवर्ती 'ङसि' तथा 'ङि' के स्थान में क्रमशः 'स्मात् - स्मिन्' आदेश विकल्प से होते हैं ।। १०७ ।
[दु० वृ० ]
पूर्वादेर्गणात् परयोर्डसिड्यो : स्थाने स्मात् - स्मिनौ विभाष्येते । प्राप्ते विभाषा । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । 'तीयाद् वा वक्तव्यम्' ( वा० सू० ) । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन् द्वितीये । तृतीयस्मात् तृतीयात् । तृतीयस्मिन्, तृतीये ॥ १०७ ॥
[दु० टी० ]
:
विभा० । विपूर्वी भाष विभाषणे । विभाषा अव्ययो वा । तत इन् धात्वर्थे । पूर्वादिरिति तद्गुणसंविज्ञानो बहुव्रीहिः । प्राप्ते विभाषेति पूर्वादिर्गणस्य सर्वनामत्वात् स्मात् - स्मिनौ नित्यं प्राप्तौ विकल्प्येते यथास्थानम् । न च ङेः स्यादीनां वा अश्रुतत्वादित्यर्थः । 'अपवादविषयं परिहृत्य उत्सर्गः प्रवर्तते' (कात० प० ५५) इत्युत्पत्तिकाल एव विभाषा स्यात् । पूर्वादिरिति किम् ? तस्मात् त्यदः पूर्वो वृत्शब्दः पूर्वादिगणसमाप्त्यर्थ एव पठ्यते । तीयादिति । तीयप्रत्ययादित्यर्थः । 'तीयो वा ङवत्सु' इति पूर्वादिषु संबध्यते इति वक्तव्यमेव युक्तमिति तौ पूवादेर्वेति कुचोद्यमेतत्, पर्यायत्वात् ।। १०७।
(वि० प० )
विभाष्येते । विपूर्वाद् भाषतेः कर्मणि वर्तमानाया आत्मनेपदप्रथमपुरुषद्विवचनम् - आते, “सार्वधातुके यण्" ( ३।२।३१) । 'आते - आथे' इति चेति आकारस्येकारः । विभाष्येते इति द्विवचनं व्यवहितस्यापि ङसिः स्मादित्यनुकर्षणार्थम् ।