________________
७८
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. वृक्षण। वृक्ष + टा | प्रकृत सूत्र द्वारा ‘टा' को 'इन' आदेश, “अवर्ण इवणे ए" (१।२।२) से अकार को एकार तथा "रघृवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि" (२।४।४८) से नकार को णकारादेश ।। १०२ ।
१०३. डेर्यः [२।१।२४] [ सूत्रार्थ]
अकारान्त लिङ्ग = प्रातिपदिक से परवर्ती चतुर्थी विभक्ति एकवचन 'डे' प्रत्यय को 'य' आदेश होता है || १०३ |
[दु० वृ०] अकारान्ताल्लिङ्गात् परस्य डेवचनस्य य आदेशो भवति । वृक्षाय ।। १०३ । [दु० टी०]
उः। सप्तम्येकवचनस्य न ग्रहणं "ङिः स्मिन्" (२।१।२७) इति ङिग्रहणानर्थक्यप्रसङ्गात् । ततो "हेर्यः” (२।१।२४) इत्यतो डिग्रहणं वर्तिष्यते । न चानन्तरत्वाद् ङसेरनुवर्तनमुचितम्, ङसेरनुवर्तने हि ङसिः स्मात् - स्मिनोरिति कृतं स्यात् । अत्रापि डकारः सुखप्रतिपत्त्यर्थ एव ।। १०३ ।
[वि० प०] डेः । डेरिति उस आदिलोपः सूत्रत्वात् ।। १०३। [क० च०]
डे: । "डेर्यः" (२।१।२४) इति सरेफोऽयं योगः । तथाहि सप्तम्येकवचनस्य न ग्रहणम्, 'ङि: स्मिन्' इति डिग्रहणनार्थक्यप्रसङ्गात् । यतस्तत्र “डेर्यः' इत्यतो ङिग्रहणं वर्तिष्यते । न चानन्तरत्वाद् ङसेरेवानुवर्तनमुचितम्, ङसेरनुवर्तने हि स्मात्स्मिनाविति कृतं स्यात् । कुलचन्द्रस्तु सूत्रत्वात् षष्ठीलुगित्युक्तवान्,ततः षष्ठीपदं षष्ठ्येकदेशपरम्, अत एव न रेफशून्यः पाठः । एतदेकवाक्यतया उस आदिलोप इत्यत्रादिलोप इति वर्णयन्ति अन्ये ।। १०३।