________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
१००, ङसिरात् [ २।१ । २१ ]
७३
[ सूत्रार्थ ]
अकारान्त लिङ्ग (प्रातिपदिक) से परवर्ती पञ्चमीविभक्ति एकवचन 'ङसि' प्रत्यय के स्थान में 'आत्' आदेश होता है || १००।
-
[दु० बृ० ]
अकारान्ताल्लिङ्गात् परो ङसिराद् भवति । वृक्षात् । दीर्घोच्चारणाद् अतिजरसात् ।। १००। [दु० टी० ]
ङसि० । दीर्घोच्चारणाद् अतिजरसाद् इति । यद्यत्र नित्यत्वाज्जरसादेशः स्याद् दीर्घोच्चारणं किमर्थम् ? ह्रस्वेऽपि कृते समानलक्षणदीर्घो भविष्यति, अकारस्याकारे लोपो नास्ति ‘“रागान्नक्षत्रयोगात् ' (२ । ६ । ७) इत्यादिनिर्देशात् । तस्माद् दीर्घबलादादेशे कृते पश्चाज्जरस् भवतीत्यर्थः । अथवा अकारोच्चारणाद् यद्यकारो न क्रियते समस्तस्यादेशो न लभ्यते, एकवर्णत्वात् । तदयुक्तम् । अभेदनिर्देशाद् ङसिस्तकाररूपेण विपरिणमत इति ज्ञापकोच्चारणं च कष्टमिति । भाष्यकारमते तु पुनः अतिजरादिति भवितव्यम्, सन्निपातलक्षणत्वात् । इह ङकार इकारश्चानुबन्धः सुखप्रतिपत्त्यर्थ एव, अन्यथा स्यादिसम्बन्धात् परिशिष्टतया ङसिरेव प्रतीयते || १०० |
[वि० प० ]
1
ङतिः । ननु ह्रस्वेऽपि कृते समानलक्षणे दीर्घत्वे सति सिद्धं वृक्षादिति, किं दीर्घविधानेन ? न चाकारलोपः स्यादित्युक्तं रागान्नक्षत्रयोगादिति ज्ञापकाद् अकारकरणाच्च । अन्यथा यद्यकारलोपः स्यात् तदा " ङसिस्त” इति विदध्यात् । नन्वकारमन्तरेण एकवर्णत्वात् कथं समस्तस्यायमादेशः, 'वर्णान्तस्य विधिः' (कात प० ५) इत्यन्त्यस्यैव स्यादिति चेद् अस्तु को दोष:, लोपपक्षे साध्यस्य सिद्धत्वादिति । ये तु 'परस्यादेः' (भोजपरि० - सू० १६ ) इति परिभाषामङ्गीकृतवन्तः, तन्मतेऽप्यभेदनिर्देशात् समस्तस्य भविष्यति । ङसिस्तकाररूपेण विपरिणमत इत्यर्थः । ततोऽकारकरणादेव लोपो न भविष्यति किं दीर्घकरणेनेत्यत आह- - दीर्घ इत्यादि । दीर्घबलात् सन्निपातलक्षणपरिभाषा न प्रवर्तत इति आदादेशे कृते पश्चाज्जरसादेशो भवतीति ।। १०० ।