________________
नामचतुष्टयाध्याये प्रथमो पातुपादः "इसिरात्" (२।१।२१) इत्यत्र नित्यत्वाज्जरसादेशः स्यादिति टीकायां वक्ष्यति, तत्र हि 'वर्णग्रहणे निमित्तत्वात् ' इत्यस्यावतारेणैव नित्यत्वं सङ्गच्छत इति ? सत्यम्, जरसादेशं प्रति अनित्यतेति हेमकरः। केचिद् वर्णयन्ति - वर्णग्रहणस्य यत् कार्यं तद् वर्णकार्यमिति पक्षमवलम्ब्योक्तम् इति । यत्तु टीकायां नित्यत्वाज्जरसादेशः स्यादिति वक्ष्यति, तद्वर्णे परे यत् कार्यमिति पक्षमवलम्ब्योक्तमिति । ऐकारोपदेशबलादिति । नन्वत्र एकारैकारयोर्बिमात्रत्वेन विशेषाभावात् कथमैकारोपदेशस्य बलाधिक्यमिति ? सत्यम् । यन्मते ऐकारस्य एकारादधिकधर्मत्वम्, तन्मते इदमुक्तमिति ।धुटोऽसम्भवादिति । ननु भूतपूर्वगत्या धुडस्त्येवेत्याह – अन्यत्रेति । यस्माद् अन्यगत्यैव भूतपूर्वगतिराश्रीयते इति । एत्वं भिसीत्यादि । अतः अकारादित्यर्थः । यत्र द्वौ प्रसङ्गावित्यादि । प्रसज्यते कार्यमनेनेति प्रसङ्गः सूत्रम् । यत्रैकस्मिन् विषये द्वे सूत्रे युगपत् प्राप्नुतः, तत्र विषये यो युगपप्राप्तिस्वरूपः स तुल्यबलविरोधो विप्रतिषेधः । यद् वा यत्रेत्यस्यैव स इत्यनेन परामर्शः श्रुतत्वात् । स विषयस्तुल्यबलविरोध इति बहुव्रीहिः । विप्रतिषेध इत्यनेन विप्रतिषेधविषय उच्यते।
ननु कथं परत्वमेव न संगच्छते इत्युक्तं यत एकस्मिन् उदाहरणेऽपि व्यक्तिपक्षे परत्वं घटते । तथाहि जातिपक्षे सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वात् कृतार्थयोः सूत्रयोरेकस्मिन् विषये विरोधेन प्रवृत्ती व्यक्तिपक्षे तु प्रतिलक्ष्ये लक्षणभेदादेकस्मिन् विषयेऽकृतार्थयोः पर्यायेण प्राप्तौ "विप्रतिषेधे पर कार्यम्" (कात० प० पा० ६९) इति सूत्रं विधीयते । यथा "पुगपद्वचने परः पुरुषाणाम्" (३।१।४) इति व्यक्तिपक्षे पूर्वसूत्रं तल्लक्ष्यं प्रति व्यर्थमिति चेत्, न । शर्ववर्मणा तल्लक्ष्यं प्रति सूत्र नारब्धमेव । ननु यदि तल्लक्ष्यं प्रति सूत्रं नारब्धम् इत्युच्यते, तदा कथं भूतपूर्वगत्या ऐसादेशस्य सावकाशत्वमिति वृद्धैरुक्तम् ? सत्यम् । तल्लक्ष्यं प्रति तत् 'सूत्रं नारब्धम्, किन्तु तज्जातीयं सूत्रान्तरमिति । यत्तु द्वौ प्रसङ्गावित्यत्रान्यार्थावित्यस्यान्यत्र चरितार्थाविति व्याख्यातम्, तत्तु जातिपक्षे। व्यक्तिपक्षे तु अन्यार्थावित्यस्य भिन्नफलकावित्यर्थो न्यायसम्मतः । अत एवैकस्मिन् विषये परत्वं घटत इति मनसि कृत्वाह - किञ्चति ।। ९७।
१. सूत्रं नारब्धमिति तत्रोच्यते यत्र तज्जातीयसावकाशता तत्र यथासम्भवं भवत्येव ।
सर्वसूत्रविवादविषयत्वाद् अतः आचार्यप्रवृत्तिवैयर्सेभियाऽपूर्वस्थिताकारमाश्रित्यापि प्रवर्तत इति न दोषः ।