________________
३३४
कातन्त्रव्याकरणम्
५०
४१
१०५. विश्लिष्टसन्धिभिन्नार्थी गुरुाहत एव च ।
पुनरुक्तपदार्थश्च पञ्च दोषाः प्रकीर्तिताः ।। १०६. विश्वनाथपदद्वन्द्वं नत्वा गुरुपदं मया । तन्यते हरिरामेण व्याख्यासारः समासतः ।।
प्र०-४० १०७. वृक्षादिवदमी रूढा : कृतिना न कृताः कृतः ।
कालापनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ।। प्र०-६,२०,२५ १०८. वृक्षे वनस्पती रूढो कशायां स्यात् प्रतिष्कशः । आङः पदे प्रतिष्ठायां रथस्पा सरिदन्तरे ।।
३१५ १०९. वैदिका लौकिकज्ञैश्च ये यधोक्तास्तथैव ते |
निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः ।। ११२,११७ ११०. व्यञ्जनानि चतुस्त्रिंशत् स्वराश्चैव चतुर्दश ।
अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ।। १११. व्यञ्जनान्यनुयायीनि स्वरा नैवं यतो मताः ।
अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः ।। ११२. शकन्धुः केश-विन्यासे सीमन्तः कुलटाऽटवी ।
एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि च ।। ११३. शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव षडाननः ।
लिलेख शिखिनः पुच्छे कलापमिति कथ्यते ।। ११४. शालातुरीयशकटाङ्गजचन्द्रगोमिदिग्वस्त्रभर्तृहरिवामनभोजनमुख्याः।
मेधाविनः प्रवरदीपककर्तृयुक्ताः प्राज्ञैर्निषेवितपदद्वितया जयन्ति ।। १०६ ११५. शिवमेकमजं बुद्धमर्हदग्यं स्वयम्भुवम् ।
कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ।। प्र०-३६, प्र०-४१, १ ११६. शृङ्गवद् बालवत्सस्य कुमार्याः स्तनयुग्मवत् ।
नेत्रवत् कृष्णसर्पस्य स विसर्ग इति स्मृतः ।।
१०८
२९४
प्र०-४
९३