________________
३२०
कातन्दव्याकरणम्
हनुरस्यास्तीति हनूमान्, हनुमान् । मरुता दत्तः मरुत्तः, दस्य लुक् । आध्यायतीति आन्यः । अश्वस्येव स्थामोर्जितमस्य अश्वत्थामा । अश्वास्तिष्ठन्त्यस्मिन्निति अश्वत्थः।
एवं कपित्थः, दधित्थः । एषु सकारस्य तकारः । उद्गतोऽम्वरम् उदुम्दरः। इहोत्वमात्रम् । ऊर्ध्वं खन्यते इति उदूखलम्, उलूखलं च | नस्य नित्यं लत्वम्, दस्य तु वा |मध्ये ऊत्वं च । केनोभ्यते इति कुम्भः । कुमुद्दालयति कुद्दालः । किखिभिरिन्धयते इति किष्किन्ध्या, इनन्ताद् इन्धेर्यः । इन्धेरलि किष्किन्धेति चेच्छन्ति । किं कलयतीति किष्कुः । डुरौणादिकः । विष्वपि मूर्धन्यः । व्रतिनः सीदन्त्यस्यामिति वृषी । अनेकार्थेन वृषेणैकताश्रुतेरिह मूर्द्धन्यमिच्छन्ति । द्यौरोकोऽस्य दिवौकाः । उत्वमोकारस्य । यद्यपि दिवर्थे दिवमिति निश्चितं तथाप्योकारनिवृत्त्यर्थमिह दिवौकसः पाठः । तथा च भागवृत्तिकृता विमलमतिनाप्येष निपातितः । ईशेस्तालव्यान्तादप्रत्यय:। हलीशा, लाङ्गलीशा । एतौ विभाषयेति मतम् ।
तद् करोतीति तस्करः। अक्षाणां परम् परोक्षम्। हिनस्तीति सिंहः। असु लुनातीति लुलापः । दक्षिणतीरम्, दक्षिणतारम् । दिक्शब्दात् तीरशब्दस्य वा तारः । धूरिव जटाऽस्येति धूज़टिः।
लोपागमादेशविपर्यया ये ये चार्थभेदेषु विधेर्विशेषाः। न लक्षिता लक्षितविस्तरेण तत्संग्रहोऽयं कृतिनोपदिष्टः॥ समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम् ।
न तद् विमृष्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा ॥ १४२। ॥ इति श्रीमहामहोपाध्यायश्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ सन्धिप्रकरणं समाप्तम् ॥