________________
२८९
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः [वि० प०]
द्विर्भावम्। द्विशब्दात् "द्वित्रिचतुर्थ्यः सुच्" (पा० ५। ४। १८) इति तमादिनिपातनात् “'संख्यावारे सुच्" इति सुचप्रत्ययः । भवनं भावः, भावे घञ् । द्विश्चासौ भावश्चेति विग्रहः । अथवा द्विरिति भिन्नं पदम् । 'स्वरात् परः' इत्यनेन पञ्चमीलक्षणस्तत्पुरषोऽयम् , न पुनःस्वरः परो यस्माद् इति बहुव्रीहिरिति सूचयति – 'व्याख्यानतो विशेषार्थप्रतिपत्तेः' (काला० परि० सू० ८८)। तेनोञ्छतीत्यादौ न भवतीति । ऋच्छतीत्यादौ द्विर्भाव एवेति । तर्हि स्वराद् इत्युक्तं किं परग्रहणेन ? सत्यम् । उपश्लेषार्थं यत्रैव संहितया उच्चार्यन्ते वर्णास्तत्रैव स्यादिति । इह मा भूत् – 'हे छात्र! छत्रं पश्य' इति । अप्यधिकारादित्यादि । कुट्याश्छाया इति विग्रहः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वम् । “आमाभ्यां नित्यम्" (कात० परि०-सं० ८५) इति पूर्वेण विकल्पे प्राप्ते नित्यमुच्यते । डकारोपादानाद् मर्यादाभिविधीषदर्थक्रियायोगे वर्तमान आकारो गृह्यते, तस्यैव ङानुबन्धत्वात् । वाक्यस्मरणयोस्तु वर्तमानस्य छानुबन्धत्वाद् दीर्घात् पदान्ताद् वा इत्यनेन विकल्प एव – 'आच्छाया, माच्छिदत्' इति ।छिदिर् - मायोगेऽद्यतनी इरनुबन्धाद् वेति वक्तव्यबलादण् । अव्ययेनाङा साहचर्यान्माशब्दोऽप्यव्यय एव । तेन 'पुत्रो माच्छिदत्' इत्यादिषु पूर्वेण विकल्प एवेति ।।७९ ।
॥ इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां सन्धी पञ्चमः विसर्जनीयपादः समाप्तः॥
[क० च०]
द्विर्भावम् इत्यत्र कथं कर्मधारयः । भावः क्रिया, द्विशब्देन संख्याभिधायकतया भावशब्देनैकाधिकरण्याभावादित्याह - विरिति । उपश्लेषार्थमिति । ननु सर्व एव संधयः संहितायामेव विधीयन्ते, तत् किमत्र यत्नान्तरेण ? सत्यम् । अस्मन्मते संहिताधिकारो नास्ति । किन्तु "न विसर्जनीय०" (१। ५। १६) इत्यत्र सन्धिपदेन समानदीर्घादीनामभिधानात् संहिताविषयत्वं प्राप्तम्, तच्च समानदीर्घादीनामेव न द्विर्भावस्य । पूर्वसूत्रसन्धिपदेनैतत्सूत्रविहितस्य कार्यस्यानुपादानात् (यतः कार्यमेव परिग्रहणमिति संक्षेपः)।
१.
द्र० - “वारे कृत्वस्" (शाक० व्या० ३।४। ३२) आदि ।