________________
२८८
कातन्त्रव्याकरणम्
[दु० टी०]
द्विर्भावम्० । द्वित्रिचतुर्थ्यः संख्यावारे सुच् । भवनं भावः, स एव द्विरिति कर्मधारयः । द्विरिति पदं वा भिन्नमिति । स्वरात् पर इति तत्पुरुषः, न पुनः स्वरः परो यस्मादिति बहुव्रीहिः । तेनोञ्छतीति न द्विर्भावः । 'विच्छ्यते' इति द्विर्भाव एव । तदेतद्व्याख्यानात् 'छिदिर् द्विधाकरणे' (६। ३) इति निर्देशात् "गमिष्यमां छः" (३।६। ६९) इति ज्ञापकाद् वा । तर्हि स्वरादिति कथं न कुर्यात् चेत्, नैवम् । परग्रहणम् उपश्लेषार्थम् । तेन ‘हे छात्र ! छत्रं पश्य' इत्यत्रासंहितायां न भवति । अप्यधिकारादित्यादि। 'छिदिर्' इरनुबन्धत्वाद् अद्यतन्यामण् । वाक्यस्मरणे चाङानुबन्धत्वाद् द्विर्भावो भवति वा । 'आछायेयं विभाति, आच्छायेयं विभाति' । आच्छाया नु सा, आ छाया नु सा | आङा सहचरितस्याव्ययस्य ग्रहणादिह न भवति । उपमा छन्नः, उपमाच्छन्नः, त्वं मा छादय, त्वं माच्छादयेति मादेशो द्वितीयैकवचने ।
येऽपि ङानुबन्धमाशब्दं मन्यन्ते तेऽपि साहचर्यव्याख्यानमभ्युपेष्यन्ति । अन्यथा माङ् – माने “आतश्चोपसर्गे" (४/५/८४) इत्यङ् । प्रमा छन्नम्, प्रमाच्छन्नम्, इत्यत्रापि स्यात् । भावग्रहणं स्पष्टार्थम् । योगाविभागार्थमित्यन्ये । तेन स्वरात् परस्य व्यञ्जनस्य हकारवर्जितस्य अस्वरे द्विर्भावो भवति वा । दद्ध्यत्र, दध्यत्र | मद्ध्वत्र , मध्वत्र ।
अहकारस्येति किम् ? सन्नह्यते । अस्वर इति किम् ? दधि, मधु । स्वरात् पराभ्यां रेफहकाराभ्यामपि अशिटो व्यञ्जनस्य वा । अर्कः, अर्कः । ब्रह्ममा, ब्रह्मा वा । अशिट इति किम् ? आदर्शः, बर्हा, बर्हमित्यादि । नैवम्, श्रुतेरभेदात् सजातीयैः संयुक्तानामुच्चारणं प्रत्येकस्यानेकस्य वा भेदो नास्तीत्यर्थः । असंयोगाद् विरामे विशेष इति चेद् अस्वर इति प्रसज्यनत्रा - वाक्, वाक्क् । नैवं भाषायां दृश्यते इति मतम् ।।७९।
॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां सन्धौ पञ्चमः विसर्जनीयपादः समाप्तः॥