________________
२८६
कातन्त्रव्याकरणम्
[दु० टी०]
रो रे०। प्रधानशिष्टतया लोपो नित्यः । अन्वाचयशिष्टश्च दी? यथासम्भवं स्थानेऽन्तरतम इति । ननु स्वजात्यपेक्षो दीर्घः स्वरस्यैव स्थाने भविष्यति । यथा ब्राह्मणस्य स्थाने ब्राह्मणः प्रवर्तते । तथा दीर्घादयो हि विधीयमानाः स्वस्य स्थाने वेदितव्या इति । तथा च अभ्यासे स्वरग्रहणमन्तरेण स्वरस्थाने हस्वः सिद्धः इति ? सत्यम् एतत् । यदिह स्वरग्रहणं तत् सुखप्रतिपत्त्यर्थमिति, तथा पूर्वग्रहणमपि । अन्यथा लोपापेक्ष्य एव पूर्वो दीर्घ इति गम्यते ।।७८।
[वि० प०]
रो रे० । उच्चै रौतीति । इह दीर्घाभावेऽपि रो रे लोपमापद्यते, चकारस्यान्वाचयशिष्टत्वादिति ।।७८।
[क० च०]
रो रे० । ननु यत्रैव दीर्घस्तत्रैव लोपः कथं न स्यात् ? अन्वाचये किं प्रमाणम् । तथा च समुच्चयकल्पनेऽन्वाचयकल्पनाया अन्याय्यत्वात् । नैवम्, लोपस्य मुख्यत्वं दीर्घस्यान्वाचयता इति टीकायामुक्तम् । “शेतेरिरन्तेरादिः" (३ । ५। ४०) इति ज्ञापकाद् नान्वाचय इति कश्चित् । ननु दीर्घा भवन् सजात्यपेक्षया स्वरस्यैव भविष्यति किं स्वरग्रहणेन ? सत्यम् । सुखार्थम् । पूर्वग्रहणमपि तथैव दीर्घो भवन् रेफे परे पूर्वस्मिन्नेवेति संक्षेपः ।।७८।
[समीक्षा] _ 'अग्निर् + रथेन, पुनर् + रात्रिः, उच्चैर् + रौति' इस अवस्था में कातन्त्रकार इस एक ही सूत्र द्वारा रेफ का लोप तथा पूर्ववर्ती स्वर को दीर्घ करते हैं । पाणिनि ने रेफ - लोप के लिए "रो रि" (८। ३। १४) तथा दीर्घ के लिए "लोपे पूर्वस्य दीर्घोऽणः" (६।३।१११) सूत्र बनाया है । इस प्रकार पाणिनीय रचना-प्रक्रिया को गौरवाभिधायक ही माना जाएगा |
[विशेष]
व्याख्याकारों ने सूत्रपठित चकार को अन्वाचयशिष्ट माना है । किसी प्रधान के साथ अप्रधान के अन्वय को अन्वाचय कहते हैं – 'अन्यतरस्याऽऽनुषङ्गि