________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२८३
सत्यम् । अत एव पुनर्ग्रहणादत्राप्राप्त्या सन्धिर्विधास्यते चेत्, न । विभक्तिलोपे सति तत्कालमेवाग्रशब्दस्याकारेण सह उपश्लेषो भवति । पूर्वोऽकार इति किम् पुनर्ग्रहणेन इत्याह - न्यायेति। ननु तथापि विसर्जनीयग्रहणं न क्रियतामित्याह - ननु इति । ___ ननु अनेन सन्धिनिषिध्यते विसर्जनीयलोपे सति । अस्मन्मते सन्धिरिति संज्ञा न कृता, तस्मात् सन्धिपदेन किमुच्यते ? 'पाणिनिनाऽपि सन्निकर्षः सन्धिरिति सूत्रम् । 'श्रीपतिनापि सुसन्निकर्षः सन्धिरित्युक्तम् ? सत्यम् । वर्णानां समवायः सन्धिरिति व्युत्पत्त्या इहोच्यते । अथ तथापि कथं सन्धिशब्देन दीर्घादिरुच्यते, सन्निकर्षस्य धर्मपरत्वात् ? सत्यम् । सन्धिविधेयकार्य सन्धिरित्युपचारात् । अथ सन्निकर्षो निषिध्यताम्, किमुपचारेण, तदा हि ‘कयिह' इत्यादौ सन्धिर्न भविष्यति, सन्निकर्षाभावात् ? सत्यम् । देवा हसन्तीत्यादौ संहितापाठोऽर्धमात्राकाललक्षणो न स्यादिति उपचारे किं कारणमुच्यते गुस्करणं वा किमर्थं "न व्यञ्जने" (१। २ । १८) इत्यनन्तरं विसर्जनीयलोपे चेति विदध्यात् । तस्माद् गुस्करणं बोधयति – सन्ध्याश्रयमपि कार्य सन्धिरिति केचित् ।
मुख्यार्थबाधेन हि क्रियतेऽत्र किं कारणं विचारणीयम् इत्यपरे। अत्र 'सैष दाशरथी रामः सैष राजा युधिष्ठिरः' इत्यत्र कथं सन्धिरिति विसर्जनीयस्य लुप्तत्वात् ? सत्यम् । नत्रा निर्दिष्टस्यानित्यत्वाद् अपिशब्दस्य बहुलार्धत्वाद् वा । ऋषिवचनाच्च सन्धिर्न दृश्यते । ननु,
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्।
शिष्याणामवबोधार्थं कुर्याद् वृत्तिं विलम्बिताम्॥ इति नियमोऽस्ति, कथं सर्वत्र सन्धिनिषिध्यते । कृतायामेव वृत्तौ सन्धिनिषेधो युज्यते, अन्यत्र संहिताया अभावात् ? सत्यम् । सर्वत्र संहितायास्तु तुल्यं द्रुतादिव्यवहारवर्णोच्चारणकालस्य बलवत्त्वात् । नतु अर्धमात्राकालस्य बहुत्वमिति टीकायामुक्तम् । विसर्जनीय इत्यादि वृत्तिः। अधिकारो व्यापारः। कार्येष्विति यावत् सामर्थ्यमिति ।
१. “परः सन्निकर्षः संहिता" (पर० १/४/१०९)। २. 'सुसन्निकर्षः संहिता' (द्विश्छः सुसन्निकर्षे, कात० परि० - सं० ८४)।
अर्थमात्राकालमात्रेणाव्यवायः संहितोच्यते (द्वयोः सुसन्निकर्षः, कात० परि० - सं०९५)