________________
२८२
कातन्त्रव्याकरणम् प्रतिपत्तिगौरवनिरासा पुनःशब्देन न्यायप्राप्तमेव सूचितमिति । तथा च – यथा द्रुतायामपि वृत्तौ समानदीर्घादिस्तथा मध्यमाविलम्बितयोरपि क्रमशस्त्रिभागाधिकयोविकृतिपक्षे तुल्यः । सन्निकर्षो वर्णानां भूयस्त्वं वर्णकालस्येति यथा हस्तिमशकयोस्तुल्यः सन्निकर्षः भूयस्त्वं प्राणिन इति । अथ किमर्थम् उपचारः सन्धिशब्देन सन्निकर्ष एवोच्यतां सन्धिः संश्लेषो न भविष्यति ? सत्यमेतत् । किन्तु देवा हसन्तीत्यादौ सन्निकर्षप्रतिषेधार्थं संहितापाठाद् अर्धमात्राकाललक्षणो न स्यादिति । विसर्जनीयाधिकार इत्यादि । विसर्जनीयस्य लोपे छस्य द्विर्भाव एवेत्यर्थः । ____ननु तस्मात् परं द्वि वयोगं कुर्वन् ज्ञापयिष्यति, पूर्वयोगेष्वयं प्रतिषेध इति । एवं सति विस्पष्टार्थं विसर्जनीयग्रहणम् । 'ना निर्दिष्टस्यानित्यत्वाद् अप्यधिकाराद् वा । तदा पादपूरणे सन्धिरिति मतम् । 'सैष दाशरथी रामः, सैष राजा युधिष्ठिरः' इति ||७७।
[वि० प०]
न विसर्जनीय० । पुनःशब्देनैतत् सूचितम्, अन्यस्य विभक्त्यादेर्लोपे सन्धिरेवेत्याह - अन्यलोपे तु भवत्येवेति । तेन दण्डस्याग्रं दण्डाग्रमिति सिद्धम् । ननु विसर्जनीयलोपे सन्धिर्न भवतीत्युक्ते कः प्रस्तावोऽन्यस्य विभक्त्यादेर्लोपे सन्धेरभावशङ्कायामेवैवमुच्यते ? सत्यम् । न्यायप्राप्त एवार्थः सुखप्रतिपत्त्यर्थं पुनःशब्देन सूच्यत इति । विसर्जनीय इत्यादि । तेनोत्तरसूत्रे विसर्जनीयलोपेऽपि द्विर्भावलक्षणसन्धिकार्यं स्याद् वेति । ननु सकल एवायं सन्धिः पूर्वेणैव विहितः प्रतिषिध्यते । ततो यदि द्विर्भावेऽपि प्रतिषेधः स्यात्, तदा तस्मात् सूत्रादसावपि पूर्वो विहितः स्यात् । तस्मात् परविधानादेव द्विर्भावलक्षणस्य सन्धेः प्रतिषेधो न भविष्यति किं पुनर्विसर्जनीयग्रहणेन ? सत्यम् । एवं सति सुखार्थमेव ।।७७।
[क० च०]
न विसर्जनीय० । विभक्त्यादेर्लोपे सति आदिशब्देन पदलोपेऽपि दध्योदंनमिति । ननु दण्डाग्रमित्यादौ कथं सिद्धिः, विभक्तेर्लोपेऽपि तद्व्यापिकालस्य व्यवधानात् ?
१.
दु० - 'नघटितमनित्यम्' (काला० परि० पा० ६७)।