________________
२७१
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२७१ [दु०वृ०]
नामिनः परो विसर्जनीयो घोषवत्स्वरपरो रमापद्यते । अग्निर्गच्छति, अग्निरत्र, पटुर्वदति, पटुरत्र ।।७४।
[दु०टी०]
घोषवत् । घोषवन्तश्च स्वराश्च घोषवत्स्वराः, अल्पस्वरोऽपि पर एवाभिधानात् ते परे यस्मादिति बहुव्रीहिः । न तु घोषवत्स्वरेभ्यः पर इति घोषवद्भ्यो विसर्जनीयस्यासम्भवात्, “नामिपरो रम्" (१।५।१२) इति वचनाच्च । कथं पिपठीः कल्पः, पिपठी: काम्यतीति इसन्तत्वाद् रेफश्चेद् "व्यञ्जनान्तस्य यत् सुभोः” (२ । ५।४) इति ? नैवम्, तत्र यौगपद्यात् तथा पिपठी:ष्विति ? सत्यम् । अरेफप्रकृतिरपि अघोषपरोऽपि बहुलं भवति, अथवा पूर्वनिमित्तमात्राश्रितं हि रविधानमीरूरोरुपकारितया चरितार्थं पुनर्विसर्गाभावमापन्नो घोषवत्स्वरपरो रमाद्यते । विरामेऽघोषे च विसर्ग एवेति व्याख्यातव्यम् ।।७४।
[वि०प०]
घोष० । घोषवन्तश्च स्वराश्च घोषवत्स्वरास्ते परे यस्मादिति बहुव्रीहिः । न तु घोषवत्स्वरेभ्यः पर इति तत्पुरुषः, घोषवद्भ्यो विसर्जनीस्यासम्भवात्, "नामिपरो रम्" (१५१२) इति वचनाच्च । अन्यथा स्वरेभ्यः परः इति समान्येन सिद्धत्वात् ।। ७४ ।
[क० च०]
घोषवत् । घोषवद्भ्यो विसर्जनीयस्याभावदिति | ननु तथापि परग्रहणबलाद् अत्र तत्पुरुषोऽस्तु, यथा “डढणपरस्तु णकारम्” (१ ।४।१४) इत्याह – “नामिपरो रम्” (१ ५ १२) इत्यादि । अन्ये तु पदद्वयापेक्षया सिद्धान्तद्वयम् इत्याहुः । तन्न । एकपदोपात्तयोर्द्वयोरत्र बहुव्रीहिनिश्चयेऽन्यत्रापि तन्निश्चयात् । अन्यथा अनन्वयापत्तेः । "घोषवत्स्वरेषु" इति सिध्यति । यत् परग्रहणं तदुत्तरार्थम् । तथा रप्रकृतिरित्यस्य सप्तम्यन्तेन प्राप्तिरिति परग्रहणम् । अत एव तत्र वक्तव्यम् ‘घोषवत्स्वरपरोऽपि' इति हेमकरस्याशयः ।। ७४ |