________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२६१ व्यावृत्तिरिति ब्रूमः । सुष्ठु पेषति, सुष्ठु तोषतीति क्विब्, विरामे रेफसोर्विसर्जनीयः । ततोऽनेन रेफे सति "इरुरोरीरूरौ" (२।३।५२) इति कृते पुनर्विसर्जनीयः । ___ अथ किमर्थमिदं वचनम् ? रेफार्थम् । ननु रेफेऽपि कृते पुनर्विसर्गेण भवितव्यमित्याह- ईसरथ वचनमिति । रेफादेशे कृते सति इरुरोः सम्भवाद् ईरूर) वचनमुच्यते । अत एव कृतस्यापि रेफस्य ईरूरादेशं प्रति चरितार्थत्वात् पुनर्विसर्गे बाधा न स्यात् 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते' (कात० परि० सू० ५०) इति न्यायात् । तथा ‘अग्निः' इत्यादिषु यदि लक्षणमस्तीति रेफः स्यात् तदा पुनर्विसर्जनीय एवेति ।।१३।
[क०च०]
नामि० । निरपेक्ष इति वृत्तिः । ननु कथमिदम्, यावता पदयोः सन्निकर्षः संहिता, सा पुनरत्र नास्त्येव ? सत्यम् । “इवर्णो यमसवर्णे" (१।२।८) इत्यत्रासवर्णग्रहणेन ज्ञापितम्– 'निरपेक्षेऽपि सन्धिः' इति । अत एव 'असवर्णे' इति किम् ? दधीति प्रत्युदाहरणं संगच्छते इति न दोषः । विसर्गे बाधा न स्यादिति । अत्र किं प्रमाणमित्याह'यं विधिम्' इत्यादि । कश्चरतीत्यादौ यं प्रथमविधिं प्रत्युपदेशः शकारोऽनर्थकः स प्रथमविधिः शकारोपदेशेन बाध्यते इति न “पदान्ते धुटां प्रथमः" (३ । ८ । १) इति शकारस्य चकारः । यस्य तु विसर्गविधेनिमित्तमिति रेफ ईरूरादेशाभ्यां सप्रयोजनमस्ति नासौ विसर्गविधी रेफेण बाध्यते । परिभाषावृत्तिमते यं रेफविधिं प्रत्युपदेशः , सूत्रमनर्थकम् । रेफस्य कार्यान्तराभावात् स रेफविधिर्विसर्गेण बाध्यते इति । यथा –'अग्निः, पटुः' इति । यस्य तु रेफविधेनिमित्तं बीजम् ईरूरादेशरूपमस्ति, नासौ रेफो विसर्गेण बाध्यते इति । अग्निरित्यादौ यदि लक्षणमस्तीति रेफस्तदा सुपीरित्यादौ निमित्तत्वादस्यापि निमित्तत्वमेव जात्याश्रयणादिति पुनर्विसर्ग एवेति पञिकाया अप्यभिप्रायः ।।७३।
[समीक्षा]
'सुपिस् + सि, सुतुस् + सि' इस अवस्था में कातन्त्रप्रक्रिया के अनुसार "व्यञ्जनाच्च" (२। १। ४९) सूत्र-द्वारा सिप्रत्यय का लोप, "रेफसोर्विसर्जनीवः" (२ । ३। ६३) से स् के स्थान में विसर्ग, “नामिपरो रम्" (9। ५। १२) से विसर्ग