________________
कातन्त्रव्याकरणम्
३. भगो व्रज । भगोः + व्रज । 'भो' के उपलक्षण रूप 'भगो' से परवर्ती तथा घोषसंज्ञक वर्ण व के पर में रहने पर विसर्ग का लोप ।
२६८
४. अघो यज । अघोः + यज । 'भो' के उपलक्षणरूप 'अघो से परवर्ती तथा घोषसंज्ञक वर्ण यू के पर में रहने पर विसर्ग का लोप ।। ७२ ।
७३. नामिपरो रम् (१।५।१२ )
[सूत्रार्थ]
नामिसंज्ञक वर्ण से परवर्ती विसर्ग के स्थान में रकार आदेश होता है || ७३ | [दु०वृ०]
नामिनः परो विसर्जनीयो रमापद्यते निरपेक्षः । सुपी, सुतूः । ईरूरर्थं वचनमिदम् ||७३ | [दु०टी०]
नामि० । नामिनः परो नामिपरो न तु नामि परो यस्मादिति बहुव्रीहिः घोषवत्स्वरपरः इति वचनात् । तथा परनिमित्तनिरपेक्षश्च । सुष्ठु पेषति, सुष्ठु तोषतीति I क्विपि, विरामे विसर्जनीये सति विधिरयम् । ईरूरर्थं वचनमिति । रेफादेशे सति ईरूरो: सम्भवस्तत्र ईरूरादेशाविति । “यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमस्ति नासौ विधिर्वाध्यते " (कात० परि० सू० ५० ) इति कृतस्यापि रेफस्य पुनर्विसर्ग एव । तथा अग्निः, वायुः, गौरति । कथं पिपठी:, पिपतीः । पिपठिषतीति, पिपतिषतीति । विषयसप्तमीत्वादस्य लोपे सति क्विपि विरामे भूतपूर्वप्रकृतिरेव, सस्यानन्त्यत्वात् । ततो विसर्जनीये सति रेफोऽयं प्रवर्तते इति नामिपरग्रहणं किमर्थम्? ‘कः सोमपाः' इत्यत्र सतोऽपि रेफस्य विसर्ग एव । जातौ हि वाक्यमिदम् । अथोत्तरार्थं चेद् अवर्णाद् घोषवत्स्वरपरस्य विशेषविधिभिराघ्रातत्वात् । तर्हि सुखार्थमेव ।। ७३ ।
[वि० प० ]
नामिनः | ‘नामिनः परः' इत्यनेन पञ्चमीलक्षणस्तत्पुरुषोऽयमिति दर्शयति न तु नामिपरो यस्मादिति बहुव्रीहिः । ततो घोषवत्स्वरपर इत्यनेनैव रेफस्य सिद्धत्वात्, तथा सापेक्षस्यापि विसर्जनीयस्य तेनैव सिद्धिरित्याह- निरपेक्ष इति । 'अग्निः शेते' इत्यत्र शकारे कथं न भवतीति चेत्, " घोषवत्स्वरपरः" ( १ | ५ | १३) इत्यनेनैव