________________
कातन्त्रव्याकरणम्
२६६
[दु०वृ०]
आकार-भोब्दाभ्यां परो विसर्जनीयो लोपमापद्यते घोषवति परे । देवा गताः, भो यासि, भगो व्रज, अघो यज । लोपग्रहणं 'यं वा' इति निवृत्त्यर्थम् ।।७२ ।
[दु०टी०]
घोषवति वा। लोपेत्यादि । लोपग्रहणमन्तरेण 'यं वा' इत्यनुवर्तते चेत् तदा आभोभ्यामेव स्वरघोषवतोरित्येकयोगं विदधीत, सूत्रे प्रधाननिर्देशात् लोपस्यानुवर्तनमुचितम् । नैवम् , 'यं वा' इति सन्निहितं वर्तते, कार्यदृष्ट्या च द्वयोरपेि प्राधान्यमिति लोपग्रहणम् । [लोपग्रहणमन्तरेण 'यं वा' इत्यनुवर्तते तदा कार्यस्य समानत्वाद् आभोभ्यामनघोषे इत्येकमेव सूत्रं कुर्वीत | अघोषादन्यस्मिन् परिशिष्टे स्वरे घोषवति च लोपयकारौ भविष्यतः, किं योगविभागेन ? ननु योगविभागात् 'लोपः' एवानुवर्तते इति कुतो निश्चितम् । एकयोगनिर्दिष्टत्वाद् यं वेत्यस्यैवानुवृत्तिः कथन्न भवतीति चेत्, नैवम् । 'विसर्जनीयो लोप्यो यं वाऽऽपद्यते' इति सूत्रार्थे लोपस्य प्रधानत्वाद् यकारस्य च वाशब्देन समुच्चीयमानत्वाद् अप्राधान्यम् । अतो लोप एवानुवर्तिष्यते, तदयुक्तम्, अनन्तरत्वाद् ‘यं वा' इत्येतदेवानुवर्तते । किं च कार्यद्वारेण द्वयोरपि प्राधान्यमिति लोपग्रहणम् ] ।। ७२ ।
[वि०प०]
घोष० । 'भगो व्रज, अघो यज' इति उपलक्षणपक्षे दर्शितम् । विशेषविधानाद् यकारस्य निवृत्तिराद् इत्याह-लोपमित्यादि । ननु लोपग्रहणमन्तेरण 'यं वा' इत्यनुवर्तते तदा कार्यस्य समानत्वाद् ‘आभोभ्यामनघोषे' इत्येकमेव सूत्रं कुर्वीत | अघोषादन्यस्मिन् परिशिष्टे स्वरे घोषवति च लोप-यकारौ भविष्यतः, किं योगविभागेन ? ननु योगविभागाद् लोप एवानुवर्तते इति कुतो निश्चितम् । एकयोगनिर्दिष्टत्वाद् ‘यं वा' इत्यस्यैवानुवृत्तिः कथं भवतीति चेत्, नैवम् । विसर्जनीयो लोप्यो भवति यं वाऽऽपद्यते इति सूत्रार्थे लोपस्य प्रधानत्वाद् यकारस्य च वाशब्देन समुच्चीयमानत्वाद् यं वा इत्येतदेवानुवर्तते, किं च कार्यद्वारेण द्वयोरपि प्राधान्यमिति लोपग्रहणम् ।।७२ ।
[क००
घोष० । यं वेति निवृत्त्यर्थमिति वृत्तिः । यकारवाशब्दयोर्निवृत्तिरिति भावः । विशेषविधानादिति- विशेषस्य लोपस्य पुनर्विधानादित्यर्थः । अर्थादिति- 'कार्य कार्येण