________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२६१
[क० च०]
अपरो० । ननु कयिहेत्यादौ घोषवति कथं न दीर्घो लाक्षणिकत्वादिति चेत्, तदयुक्तम् । वृक्षायेत्यादिष्वपि दीर्घाभावप्रसङ्गात् । तत्रैव दीर्घः कथमिति चेद्, वर्णविधौ लाक्षणिकपरिभाषाया अनादरात् । इदमेव कुतो लब्धमिति चेत्, स्थादोश्चेति ज्ञापकात् । अत्र हेमकरः सिद्धान्तयति - 'असिद्धं बहिरङ्गम् अन्तरङ्गे' (कात० परि० सू० ३५) इति न्यायादत्र न दीर्घः, तन्न । वृक्षायेत्यादावपि प्रकृत्याश्रिते दीर्घे कृते प्रत्ययाश्रितस्य यकारस्यासिद्धिवद्भावप्रसङ्गात् ।
अथ स्थितिपक्षे कथमत्रैव दीर्घोऽसिद्धवद्भावस्य विषयत्वादिति चेद्, अकारो दीर्घं भोऽष्विति (?) कृते सिध्यति यद् घोषवद्ग्रहणं तत् सन्निपातासिद्धवद्भावयोरनित्यार्थम् । वररुचिमतानुसारिणाप्येवं तस्मिन् सूत्रे व्याख्यायते ।
कामघोषस्तु कयिहेत्यत्र यकारस्य व्यञ्जनत्वाद् विभक्तिविषये यो घोषवान् वर्ण इत्यस्याघटनात् न दीर्घः । अथ कुत इदं लब्धमिति चेदुच्यते - “ शसि सस्य च नः" (२।१ ।१६) इत्यत्र शस् निरिति कृतेऽपि " अकारो दीर्घं घोषवति" ( २ ।१ । १४) इति दीर्घे कृते वृक्षान् इत्यादिकं सिध्यति यत् पुनस्तत्र दीर्घो विधीयते तद् बोधयतिविभक्तिविषये यो घोषवान् वर्णस्तस्मिन्नेव दीर्घः, न तु विभक्तिरूपे घोषवद्वर्णमात्रे इति । न च “आद्यन्तवदेकस्मिन्" (कात० परि०वृ० २० ) इति न्यायादेवात्रापि विभक्तिविषयत्वमस्तीति वाच्यम्, ज्ञापकस्य व्यर्थत्वादिति, तन्न, शस् निरिति कृते इमानित्यत्र व्यञ्जनेऽद्भावप्रसङ्गात् । अन्यदपि बहु दूषणमस्तीति । तन्न लिखितं ग्रन्थगौरवभयात् । तस्मात् सिद्धान्तः पुनरयम्-तत्रैकपदाश्रित एव घोषवति दीर्घप्रस्तावात् कुतः कयिति भिन्नपदाश्रितघोषवति दीर्घप्रसङ्ग इति । अपर इति किम् ? अग्निरत्रेति वृत्तिः । अपरग्रहणाभावे किमपेक्षयाऽन्यत्स्वरो ग्रहीतव्य इति चेदुच्यते यतो विसर्गस्तदपेक्षयाऽन्यत्वं ग्राह्यमिति न दोषः ।
परत्वादिति पञ्जी । यथा तस्य परत्वं तथाऽस्यापि अन्यस्वरमादाय विशेष - विहितत्वमस्तीति आशङ्क्यते, तस्यापि विशेषविहितत्वं नामिपरत्वमादाय इत्याहविशेषविहितत्वादिति । एतेन विशेषविहितत्वेनोभयमेव समानम्, किन्तु रेफस्य परत्वेनाधिकरणत्वमिति । अथोभयोः सावकाशत्वाभावात् कथं परत्वमिति चेत्, न । " अन्यस्वरे
""
यं वा ” (१ | ५ |९ ) इत्यस्य क इहेत्यादौ रेफस्य तु अग्निरिहेत्यादाविति । नैवमित्यादिअथ भिन्नविभक्तिनिर्देशात् समुच्चयार्थत्वमुच्यते, तथा वाशब्दबलाद् विकल्पः कथं न