________________
२६०
कातन्त्रव्याकरणम्
७०. अपरो लोप्योऽन्यस्वरे यं वा (१।५।९) [सूत्रार्थ]
अकारभिन्न स्वर के पर में रहने पर अकार से परवर्ती विसर्ग का लोप होता है तथा विकल्प से यकारादेश भी होता है ।।७०।
[दु०वृ०]
अकारात् परो विसर्जनीयो लोप्यो भवति उक्ताद् अन्यस्वरे यं वाऽऽपद्यते । क इह, कयिह । क उपरि, कयुपरि । अपर इति किम् ? अग्निरत्र | वाऽत्र समुच्चये | ईषत्स्पृष्टतरोऽत्र यकारः ।।७०।
[दु०टी०]
अपरः । आत् परोऽपर इति, अन्यश्चासौ स्वरश्चेति अन्यस्वरः सामर्थ्यप्राप्तं स्वरमपेक्ष्यान्यस्वरः स्यादिति | अपर इत्यादि । ननु अन्यग्रहणमपि किमर्थम् "उमकारयोर्मध्ये" (१ । ५। ७) इति बाधकं लोपस्य यकारस्य चाविशिष्टत्वात् तथा रेफश्च नामिपरत्वात् । अथ जातौ विस्पष्टार्थं व्यक्तौ बाधकं नास्तीति लोपयत्वोत्त्वानि स्युरित्यन्यग्रहणं तथा अपरग्रहणमपि स्थितम् । आदिति सिद्धे परग्रहणं च स्पष्टार्थम् | स्वरग्रहणं किमर्थम् ? 'कः करोति, कः फलति' इति विकल्पपक्षे मा भूत् । वाऽत्र समुच्चये इति । लोपयकारयोर्विधानाद् विकल्पसिद्धिरस्तीति । न च विसर्गस्थितिहेतुरयं विकल्पः कल्प्यते यलोप्यो वेत्यकरणात् । तस्माद् वा-शब्दः समुच्चयार्थो निश्चितः । यथा स्थानान्तरेषु यकार ईषत्स्पृष्टः सिद्धस्तथा ईषत्स्पृष्टतरश्चेह स्वभावाद् इति । अन्ये तु अनुक्तमपीषत्स्पृष्टत्वं वाशब्दः समुच्चिनोतीति मन्यन्ते । तत् पुनः स्थान- करण-शैथिल्यमुच्चारणकृतमुच्यते ।।७०।
[वि० प०]
अपरः। अग्निरत्रेति। ननु चात्र परत्वाद् विशेषविहितत्वाच्च नामिपरस्य विसर्जनीयस्य घोषवत्स्वरपर इति रेफोऽपि बाधकः किमपरग्रहणेनेति ? सत्यम् । सुखार्थम् । किं च व्यक्तिपदार्थपक्षे बाधकत्वं नास्तीति अत्रापि स्यात् । वाऽत्र समुच्चये इति । लोपयकारयोः सूत्र एवोक्तत्वाद् विकल्पो लब्ध एवेति समुच्चये वाशब्द इह वेदितव्य इत्यर्थः।
ननु पक्षे विसर्गस्य स्थित्यर्थं विकल्पार्थ एव वाशब्दः कथं न स्यात् । नैवम्, तदा 'यलोप्यौ वा' इत्येवं विदध्यात् । तस्माद् भिन्नविभक्तिनिर्देशात् लोप्यो वा भवति यकारमापद्यते इति समुच्चय एव वाशब्दो युज्यते इत्यदोषः ।।७०।