________________
२५५
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः [क०च०]
शे षे से० । पूर्वसूत्राद् वाऽधिकारेण विकल्पे सिद्धे यत् पुनर्वाग्रहणं तद् वाऽधिकारनिवृत्त्यर्थम् । चटतानित्यकरणादिति वृत्तिः। एतेन पररूपविधानार्थं 'यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते' (काला०परि०सू०६३) इति न्यायात् पररूपेण प्रथमो बाध्यते इति भावः। वररुचिस्तु परम् इत्युक्ते श्रुतत्वात् 'शषसाः' एव भविष्यन्ति यद्रूपग्रहणं तद्रूपमात्रावधारणार्थम् । तेन 'कः शेते' इत्यादौ न प्रथम इत्याचष्टे इति । प्रक्रियागौरवमपीति पञ्जी । न केवलं साध्यस्यान्यव्याजेन विधानं परिहृतं भवतीत्यर्थः । यद् वा न केवलं मात्रालाघवं भवतीत्यपेरर्थः ।। ६७ ।।
[समीक्षा]
'कः + शेते, कः + षण्डः, कः + साधुः' इस अवस्था में कातन्त्रकार विकल्प से विसर्ग को पररूप करके 'कश्शेते, कष्षण्डः, कस्साधुः' आदि शब्दरूप निष्पन्न करते हैं । परन्तु पाणिनि उक्त प्रयोगों की सिद्धि के लिए विसर्ग को सकारादेश (विसर्जनीयस्य सः ८ । ३ । ३४), सकार को शकार (स्तोः चुना श्चुः ८।४।४०) तथा षकार आदेश का (ष्टुना ष्टुः ८।४४१) विधान करते हैं । इस प्रकार पाणिनीय निर्देश में गौरव स्पष्ट है।
[विशेष]
(१) कातन्त्र के प्रकृत सूत्र को लक्ष्य करके प्रश्नोत्तरसंवाद कातन्त्रसम्प्रदाय में प्रचलित है। -
क्व हरिः शेते? का च निकृष्टा? को बहुलार्थः? किं रमणीयम् ? वद कातन्त्रे कीदृक् सूत्रं शे पे से वा वा पररूपम् ॥
अर्थात् सूत्र है - "शे षे से वा वा पररूपम्” (9। ५। ६)। श्लोकोक्त चार प्रश्नों के उत्तर सूत्र में इस प्रकार दिए गए हैं -
१. क्व हरिः शेते? शेषे । २. का च निकृष्टा? सेवा । ३. को बहुलार्थः?
वा। ४. किं रमणीयम् ?
पररूपम् ।