________________
२५४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. कM पचति - कः पचति । कः +पचति । पकार के पर में रहने पर पूर्ववर्ती विसर्ग को विकल्प से उपध्मानीय आदेश = क M पचति । उपध्मानीय के अभाव में कः पचति ।
२. कण फलति । कः + फलति । फकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को वैकल्पिक उपध्मानीय आदेश = क M फलति । उपध्मानीय आदेश के अभाव में = कः फलति ।। ६६ ।
६७. शे षे से या वा पररूपम् (१५६) [सूत्रार्थ]
'श् - ए - स्' वर्गों के परवर्ती होने पर विसर्ग के स्थान में पररूप आदेश होता है ।। ६७।
[दु०वृ०]
विसर्जनीयः शे वा षे वा से वा परे पररूपम् आपद्यते नवा | कश्शेते, कः शेते । कष्षण्डः, कः षण्डः । कस्साधुः, कः साधुः । चटतानित्यकरणाद् विसर्जनीयादेशस्याघोषे प्रथमो न स्यात् । कश्चरतीत्यादिष्वप्येवम् ।। ६७।
[दु०टी०]
शे ० । एकोऽत्र वाशब्द: समुच्चयार्थः, अपरो वाशब्दो विकल्पार्थः। शषसेष्वघोषपरेषु विसर्जनीयो लोप्यो वा । कः श्च्योतति, कश्च्योतति । कः ष्ठीवति, कष्ठीवति । कः स्थाता, कस्थाता | पररूपत्वेऽपि रूपत्रयम् । तन्न वक्तव्यम्, श्रुतेरभेदात् ।।६७।
[वि०प०]
शे षे० | प्रथमोऽत्र वाशब्दः समुच्चये, द्वितीयस्तु विकल्पार्थः । अथ 'कश्शेते' इत्यादिषु पररूपत्वे कृते शषसानामघोषे प्रथमः कथं न स्यादित्याह- चटतानित्यादि । अयमभिप्राय:- यदि प्रथमः स्यात् तदा इवर्णचवर्गयशास्तालव्याः, ऋवर्णटवर्गरषा मूर्धन्याः, लुवर्णतवर्गलसा दन्त्याः इति क्रमेण शषसानां स्थाने चटता एव प्राप्नुवन्ति । तत पररूपग्रहणमपनीय चटतानित्येतान् वर्णान् स्वरूपेण कृत्वा शषसेषु वा चटतानिति सूत्रं विदध्यात् । एवं च सति प्रक्रियागौरवमपि परिहृतं भवति, न चैवं तस्मान्न प्रथमः ।।६७।