________________
२४७
सन्धिप्रकरणे पचमो विसर्जनीयपादः [रूपसिद्धि
१. कश्चरति । कः + चरति । प्रकृत सूत्र से चकार के पर में रहने पर विसर्ग को शकारादेश ।
२. कश्छादयति । कः + छादयति । छकार के परवर्ती होने पर पूर्ववर्ती विसर्ग के स्थान में छकारादेश || ६२ ।
६३. टे ठे वा षम् (१।५।२) [सूत्रार्थ]
ट् अथवा ठ् के पर में रहने पर पूर्ववर्ती विसर्ग के स्थान में मूर्धन्य षकारादेश होता है ।।६३।
[दु०वृ०]
विसर्जनीयष्टे वा ठे वा परे षम् आपद्यते । कष्टीकते, कष्ठकारेण । प्रत्येक वाऽत्र समुच्चये बालावबोधार्थम् ।। ६३।
[दु०टी०]
टे ठे० । प्रत्येकं वा समुच्चये बालावबोधार्थम् इति विकल्पार्थं तु न भवति, प्रतिसूत्रमुपादानात् “वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इति विभाषानुवृत्तेर्वा । ननु वाशब्देऽप्यतिक्रियमाणे किमत्राविस्पष्टं भवेत् । टठयोरित्युक्ते षष्ठ्यपि भवितुमर्हति । षमिति कर्मपदं विसर्जनीयं कर्तारमपेक्षते । नैवम्, क्रियाकारकाकुशलानां बालानामवबोधार्थमिति ।।६३ ।
[वि०प०]
टे ठे० । प्रत्येकमित्यादि । विकल्पार्थं तु न भवति, प्रतिसूत्रम् उपादानात् । "वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इति विभाषानुवृत्तेर्वा । ननु यदि प्रत्येकं वा समुच्चयो न स्यात् तदा किमिहाविस्पष्टं भवति ? सत्यम् । "टठयोः षम्" इति कृते षष्ठीमपि प्रतिपद्येत, टठयोः स्थान इति । तदयुक्तम् । षमिति कर्मपदम्, तच्च कर्तारमन्तरेण न संभवतीति विसर्जनीयम् अपेक्षते । ततो विसर्जनीयः षमापद्यते, टठयोः परयोरिति सप्तम्येव निश्चीयते । तथा पूर्वोत्तरयोरपि योगयोरिति? सत्यम्, एवं तर्हि क्रियाकारकाकुशलानां बालानामवबोधार्थम् । न खलु ते कर्तारमन्तेरण कर्मणः सम्भव इति प्रतिपत्तुं क्षमन्त इति ।। ६३।