________________
२३८
कातन्त्रव्याकरणम्
[वि०प०]
डढण० । डढणाः परे यस्मादित्यनेन बहुव्रीहिरिति दर्शितम्, न तु डढणेभ्यः पर इति तत्पुरुषः। तर्हि डढणेष्विति कृते सिध्यति, किं परग्रहणेन ? सन्देहे तु नेति ? सत्यम् | परग्रहणाद् डढणेभ्यः परः इत्यपि प्रतिपत्तव्यम्, तेन् षड्भिरधिका नवतिः, षण्णां नगराणां समाहारः इति विग्रहे षण्णवतिः, षण्णगरीति सिद्धम् । " व्यञ्जनान्तस्य यत्सुभोः " ( २।५।४) इत्यतिदेशबलात् “हशषछान्तेजादीनां ड: " ( २।३।४६ ) इति षकारस्य डकारस्ततोऽनेन नस्य णत्वम् । तदनन्तरं पदान्ते धुटां प्रथमे सति “पञ्चमे पञ्चमांस्तृतीयान् न वा” (१।४।२) इति व्यवस्थितविभाषाश्रयणान्नित्यं पञ्चम इति ।
तुशब्द इत्यादि । यदि समुच्चायार्थो वाशब्दोऽत्रानुवर्तते, तदा डढणपरो नकारोऽधिकारवशात् ‘न्चौ' वा प्राप्नोति ञकारं वेति वाक्यार्थः स्यात् । स चानिष्ट इति अव्ययत्वादनेकार्थेन तुशब्देन वाशब्दो निवर्तित इत्यर्थः ।। ५९ ।
[क० च०]
डढण०। “व्यञ्जनान्तस्य यत्सुभोः " ( २ । ५१४) इत्यतिदेशबलाद् “हशष०” (२।३।४६) इत्यादिना डत्वे सत्यनेन नवतिशब्दस्य नस्य णत्वम् । तदनन्तरं " पदान्ते घुटां प्रथमः” (३ | ८ |१) इति डकारस्य ढकार इति पञ्जी । तत्तु कुलचन्द्रेणाक्षिप्तम् । तथाहि षण्णवतिरित्यत्र परत्वात् पदान्ते धुटां प्रथमे सति “पञ्चमे पञ्चमान् " (१।४।२) इति कृतेऽनेन णकार इति । अत्र केचिद् अनेन णत्वमिति वाक्यम् । पञ्चम इत्यस्मात् परं द्रष्टव्यमित्याहुः । अन्ये तु अत्र परग्रहणात् परमपि " पदान्ते धुटां प्रथमः” (३।८।१) इति बाधित्वा अनेन णकार इत्याहुः । वस्तुतस्तु नित्यत्वात् परत्वाद् अपवादत्वाच्चाग्रतोऽस्यैव विषय इति । ततः “ पदान्ते धुटां प्रथमः" इति युक्तम् उत्पश्यामः ।। ५९ । [समीक्षा]
'भवान् + डीनम्, भवान् + ढौकते, भवान् + णकारेण' इस स्थिति में कलाप एवं पाणिनीय दोनों ही व्याकरणों के अनुसार न् के स्थान में णकारादेश प्रवृत्त होता है । कलाप के अनुसार ड, द् एवं ण् वर्ण पर में होने के कारण नू के स्थान में ण् आदेश एवं पाणिनीय व्याकरण में टवर्ग का योग होने के कारण तवर्ग के स्थान में टवगदिश का विधान किया जाता है । इस प्रकार प्रयोगसिद्धि में कोई बाधा या जटिलता तो उपस्थित नहीं होती, परन्तु पाणिनि का तवर्ग- टवर्ग यह सामान्यनिर्देश सभी उदाहरणों के अभाव में अवश्य ही चिन्त्य प्रतीत होता है ।