________________
२२९
सन्धिप्रकरणे चतुर्थो वर्गपादः
धिकरण्यमिति ? सत्यम् | अनुनासिकधर्मयोगाद् अनुनासिक उच्यते लकारः । यथा दण्डयोगाद् दण्डः पुरुषः इति || ५६ |
[क० च०]
ले० । ननु भवाँल्लुनातीत्यत्र कथं सानुनासिकलकारः श्रूयते ? सत्यम् | अन्तस्था: सानुनासिका निरनुनासिका रेफवर्जिता इति को दोषः ? अथ तर्हि एवं सानुनासिका निरनुनासिका एव कथन्न स्युरिति मनसि कृत्वाह - यद्यपीत्यादि । अत्र सूत्रे कथं सानुनासिको न निर्दिश्यते ततश्चान्तरतमव्याख्या च परिहृता भवति ? सत्यम् । अन्तरतमपरिभाषाया अनुप्रवेशादनुस्वारपूर्वो लकार एव प्राप्नोतीति हेमकरः । तन्न । सूत्रे सानुनासिकनिर्देशेनापि सर्वात्मना आघ्रातत्वाद् अनुस्वारो न भवतीति वक्तुं शक्यत्वात् । अथ पूर्वेषु योगेषु अन्तरतमतया प्रवृत्तिर्दृष्टा । तद्वद् अत्रापि भवति, तत् कथं सानुनासिको न निर्दिश्यते ? सत्यम् । सूत्रे " ले लम्" (१|४|११ ) इति सानुनासिको न निर्दिष्टः, उच्चारणगौरवादिति हेमकरः ।
ननु कारशब्दे विद्यमानेऽपि " स्थानेऽन्तरतमः " ( काला० परि० २४) इत्यस्य कथं नानुवृत्तिः ? सत्यम् । कारशब्दस्य यथाश्रुतवर्णग्रहणादन्तरतमस्य विवक्षा परिहृता, तदभावे च वर्तते इति ।। ५६ ।
[समीक्षा]
‘भवान् + लुनाति, भवान् + लिखति' इत्यादि स्थलों में कलापकार के निर्देशानुसार नू को सानुनासिक लू आदेश होकर 'भवल्लुनाति, भवाँल्लिखति' आदि शब्दरूप निष्पन्न होते हैं । पाणिनि ने ऐसे स्थलों में परसवर्णादेश का विधान किया है - " तोर्लि" (८|४| ६० ) ।
पाणिनीय और कलाप दोनों में ही साक्षात् सानुनासिक आदेश विहित नहीं है, व्याख्या के बल पर ही सानुनासिक लकारादेश उपपन्न हो पाता है । पाणिनीय व्याख्याकार कहते हैं कि स्थानी नकार यतः अनुनासिक है - " मुखनासिकावचनोऽनुनासिकः " (१।१।८), अतः परसवर्ण लकारादेश भी सानुनासिक ही होगा - " विद्वान् लिखतीति स्थिते नकारस्य स्थानिनः अनुनासिकस्य परसवर्णो लकारो भवन् आन्तर्यादनुनासिक एव लकारो भवतीत्यर्थः” (बा० म० ८।४।६०)।