________________
२२८
कातन्त्रव्याकरणम्
२. भवांस्थुडति | भवान् + थुडति । थकार के पर में रहने पर पदान्तवर्ती न् को अनुस्वारपूर्वक सकारादेश ।। ५५ ।
५६. ले लम् (१।४।११) [सूत्रार्थ] लकार के पर में रहने पर पदान्तवर्ती नकार को लकारादेश होता है ।। ५६। [दु० वृ०]
नकारः पदान्तो ले परे लम् आपद्यते अनुस्वारहीनम् ।भवाँल्लुनाति, भवाँल्लिखति । कारहीनत्वादनुनासिकम् ।। ५६।
[दु० टी०]
ले लम् । अनुनासिकयोगाद् अनुनासिकमिति । एतदुक्तं . भवति नकारोऽन्तोऽनुस्वारेण हीनं लकारमनुनासिकमापद्यते इत्यर्थः । कारहीनत्वादिति हेतुः । वर्णात् प्रयुक्तः कारशब्दो हि स्वरूपग्राहको दृष्टः, तदभावे "स्थानेऽन्तरतमः" (काला० परि०२४) इत्यनुनासिकस्य नकारस्यानुनासिक एव भवति । द्विप्रभेदा ह्यन्तस्थाःसानुनासिका निरनुनासिकाश्च रेफवर्जिता इति । अनुस्वारपूर्वमित्यपि न संबध्यते, यतोऽनुनासिकस्य लकारस्यापि नकार एव स्थानी दृश्यते स कथमन्तरतमो न भवतीति ||५६।
[वि० प०]
ले लम् । यद्यप्यन्तस्था द्विविधाः सानुनासिका निरनुनासिकाश्च रेफवर्जिता इति, तथापि सूत्रे निरनुनासिकस्यैव श्रूयमाणत्वात् स एव लकारः प्राप्नोति | तदयुक्तम् । कारशब्दो हि वर्णात् परः श्रूयमाणो यथाश्रुतवर्णपरिग्राहको भवति, तदभावे "स्थानेऽन्तरतमः" (काला० परि० २४) इति न्यायाद् अनुनासिकनकारस्यानुनासिक एव लकारो भवति इत्याह -कारहीनत्वाद् अनुनासिकम् इति । एतेनानुस्वारपूर्वमिति न संबध्यते, यतोऽनुस्वारस्यापि नकार एव स्थानी, स चानुनासिकेनैव लकारेणान्तरतम्यात् प्रवर्तमानेन सर्वात्मनाघ्रातत्वमिति कथमनुस्वारः प्रवर्तते, स्थानिन एवाभावात् । अत एवोक्तम्- अनुस्वारहीनम् इति ।
___ ननु अनुनासिको हि वर्णधर्मः, तथा च सहानुनासिकेन वर्णधर्मेण वर्तन्ते इति , सानुनासिका वर्णा उच्यन्ते । तत् कथम् अनुनासिकं लकारमापद्यते इति सामाना