________________
कातन्त्रव्याकरण
ननु 'पुंस्कोकिलः' इत्यादौ 'व्यञ्जनान्तस्य यत्सुभोः' (२।५।४) इत्यतिदेशबलाल्लोपः प्राप्नोति । न च तत्रानित्यत्वं प्रतिपादितम् ? सत्यम् । संयोगान्तलोप इत्येतद्वचनविहितस्यैव कार्यस्य तत्रातिदेश इत्यदोषः । तेन विसर्जनीये सति क्वचिद् "अनव्ययविसृष्टस्तु सकारं कपवर्गयोः", क्वचिद् "विसर्जनीयश्चे छे वा शम्, टे ठे वा पम्" (१।५।१,२) इत्याद्याह - यथाप्राप्तमेवेति ।। ५५।
[क० च०]
तथयोः।"पुमः खय्यम्परे"(पा० ८।३।६) इति परः । पुम इति लुप्तसंयोगान्तस्य पुंसोऽनुकरणम्, पुमो मकारो बिन्दुपूर्वं सकारम् आपद्यते इत्यर्थः ।खयीति, शिड्वाजेतिऽघोषे परे इत्यर्थः । खयि कीदृशे अम्परे, स्वरान्तस्थानुनासिकपर इत्यर्थः । खयीति किम् ? पुंवत् । अम्पर इति किम् ? पुंक्षुरः । तन्न वक्तव्यमित्याह - पुंस इति वृत्तिः।
__ अथ परमते 'पुमः' इति निर्देशात् 'पुमान् करोति' इत्यत्र न भवति । अस्मन्मते इह किं स्यादिति चेत्, न । इहापि 'पुंसः' इति वृत्तौ लुप्ताम्शब्दस्यानुकरणार्थं भवति । अत एव कश्चिदिह स्वरान्तस्थानुनासिकपरयोश्चछयोः, टठयोस्तथयोरिति सम्बन्धं मन्यते । तेन भवान् च्छौ लिखति, भवान् टठौ लिखति, महान् त्सरुरित्यादौ न भवति ।
अस्मन्मते तदेव प्रमाणमिति हृदि कृत्वाह - इह स्वरान्त इत्यादि पञ्जी । ननु 'पुंस्कोकिलः' इत्यादेः कथमिह प्रस्तावः । यत्र संयोगान्तलोपस्यानित्यत्वं तत्रैव दर्शयितुम् उचितत्वात् ? सत्यम् । अत्रापि प्रयोजनमस्ति, अनुस्वारपूर्वस्य सकारस्य वक्तव्यत्वादिति हेमकराशयः । वयन्तु स्वरान्तस्थानुनासिक एवाघोषेऽन्तलोपोऽनित्य इति ।।५५।
[समीक्षा]
"भवान् + तरति, भवान् + थुडति' आदि स्थलों में कलापकार न् के स्थान में ही साक्षात् अनुस्वारपूर्वक स्-आदेश करते हैं । इसी प्रकार 'भवांस्तरति, भवांस्थुडति' प्रयोग सिद्ध होते हैं । पाणिनि के अनुसार न् के स्थान में रु आदेश, रु के स्थान में विसर्ग, विसर्ग के स्थान में सकारादेश तथा अनुस्वार-अनुनासिक होने पर उक्त रूप निष्पन्न होते हैं । सं० ५३ की समीक्षा के अनुसार यहाँ भी पाणिनीय प्रक्रिया में गौरव स्पष्टतया परिलक्षित होता है ।।
[विशेष]
'पुंस्कोकिलः, पुंस्खननम्, पुंश्चकोरः, पुंश्छत्रम्, पुंष्टिट्टिभः, सुपुंश्चरति' इत्यादि प्रयोगों की सिद्धि के लिए पाणिनीय व्याकरण में सूत्र है- "पुमः खय्यम्परे"