________________
सन्धिप्रकरणे चतुर्थी वर्गपादः
२२५
स् को ष् आदेश तथा अनुस्वार - अनुनासिक प्रवृत्त होते हैं । अतः सं० ५३ की तरह यहाँ भी पाणिनीय प्रक्रिया गौरवपूर्ण है ||
[रूपसिद्धि]
१. भवांष्टीकते । भवान् + टीकते । पदान्तवर्ती नकार को अनुस्वारपूर्वक मूर्धन्य कारादेश |
२. भवांष्ठकारेण । भवान् + ठकारेण । ठकार के पर में रहने पर पदान्तवर्ती नकार को अनुस्वारपूर्वक मूर्धन्य षकारादेश || ५४ |
५५. तथयोः सकारम् (१।४।१० )
[ सूत्रार्थ ]
तन्थ के पर में रहने पर पदान्त नकार को अनुस्वारपूर्वक सकारादेश होता है | ५५ |
[दु० वृ०]
नकारः पदान्तस्तथयोः परयोः सकारमापद्यते अनुस्वारपूर्वम् । भवांस्तरति भवांस्थुडति । पुंस्कोकिलः, पुंस्खननम् । पुंश्चकोरः, पुंश्छत्रम् । पुंष्टिट्टिभः सुपुंश्चरति । पुंसोऽशिट्यघोषविषये संयोगान्तलोपस्यानित्यत्वात् । यथाप्राप्तमेव | अशिडिति किम् ? पुंसरः ।। ५५ ।
[वि० प० ]
तथयोः । इह स्वरान्तस्थानुनासिकपरयोस्तथयोरिति व्यवस्थित वा स्मरणेन वेदितव्यम् । तेन महान् त्सरुरित्यत्र न भवतीति । तथा यथासम्भवं पूर्वपरयोरपि सूत्रयोर्व्यावृत्तिरिति । पुंस्कोकिल इत्यादि । पुमांश्चासौ कोकिलश्चेति । पुंस्खननमित्यादिषु यथायोगं विग्रहः कार्यः । सुपुंश्चरतीति । शोभनाः पुमांसो यस्मिन् कुले इति विग्रहः । “विरामव्यञ्जनादावुक्तं नपुंसकात् स्यमोर्लोपेऽपि " (२|३|६४ ) इति वचनाद् अनुशब्दलोपे संयोगान्तसकारस्यापि लोपः कथन्न प्राप्तः ? पुंस्कोकिल इत्यादिषु च " व्यञ्जनान्तस्य यत्सुभोः " ( २।५।४ ) इत्यतिदेशबलात् तत् कथमसौ संयोगान्तलोपो न भवतीत्याह - पुंस इत्यादि । तथा च वक्ष्यति - पुनः संयोगग्रहणमिह पूर्वस्मिंश्चानित्यार्थमिति । इहापि स्वरान्तस्थानुनासिकपरेऽघोषे इत्येव । तेन 'पुंक्षीरम्, पुंक्षुर:' इति संयोगान्तलोप एवेति ।