________________
२१८
कातन्त्रव्याकरणम्
इत्यकारलोपः । अकारस्य स्थानिवद्भावाद् उपधादी? न भवति । सुष्ठु गणयतीति क्विप्, कारितलोपश्च | पचन्नत्रेति । पचेः शन्तृङ् "अनुबन्धोऽप्रयोगी" (३।८।३१) इति, अन् विकरणः, सन्ध्यक्षरविधिः । वृत्रहणाविति । “क्विब् ब्रह्मभ्रूणवृत्रेषु" (४।३।८३) इति क्विप् । प्राडास्ते इति । प्राङ् इति साधितमेव । अथ उपधाग्रहणं किमर्थम् ? ह्रस्वादिति कृते सिध्यति ? सत्यम् । 'संज्ञापूर्वको विधिरनित्यः' (कात० परि० सू० ३२) इति ज्ञापनार्थमेव । तेनोणादिः, अनन्तः, अनजः, अनीश्वरः इत्यादिषु द्विर्न भवति | नैवम्। "उणादयो भूतेऽपि" (४।४।६७) इति निर्देशात् । तथा "स्वरेऽक्षरविपर्ययः" (२।५।२३) इति विपर्ययग्रहणेन विपर्ययमात्रं संभवति, न त्वन्यत् कार्यम् इति ज्ञापनार्थं भविष्यति । अन्यथा तत्र ‘अनश्वरः' इति विदध्यादिति भावः । एवं तर्हि सुखार्थमेवोपधाग्रहणम् ।। ५२ ।
[क० च०]
णनाः । स्थानिवद्भावाद् उपधाया दीर्घो न भवतीति । ननु कथमिदं "न पदान्त०" (कात० परि० सू० ११) इत्यादिना स्थानिवद्भावप्रतिषेधात् ? सत्यम् । अनेनैव न्यायेन दीर्घाभावो भविष्यति, किं "छादेर्पास्मन्बन्०" (४।१।१९) इत्यनेनैव ह्रस्वविधानाद् अनित्योऽयं न्याय इति । तथाहि निमित्तस्य कारितस्याभावे सति नैमित्तिकदीर्घस्याभावो भविष्यति, नैवम् । स्वरादेशन्यायेन स्थानिवद्भावादिति चेत्, न । “न पदान्त०" (कात० परि० सू० ११) इत्यादिना स्थानिवद्भावनिषेधादेव दीर्घाभावो भविष्यति, किं "छादेर्प०" (४।१।१९) इत्यनेन ह्रस्वविधानेन । तस्माद् हस्वविधानं बोधयति “न पदान्तद्विवचन" (कात० परि० सू० ११) इति परिभाषेयमनित्येति केचिद् आहुः। ___टीकायां तु अकारकरणसामथ्यदिव 'दीर्घविधौ न स्थानिवत्' इति न्यायो नोपतिष्ठत इति । “अस्योपधायाः" (३।६।५) इत्यत्र वक्ष्यति । अन्ये तु दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधेऽपि उपधासंज्ञां प्रति स्थानिवद्भावस्य वज्रलेपत्वान्न दीर्घ इत्याहुः । वस्तुतस्तु "न पदान्त०" (कात० परि० सू० ११) इत्यस्य नञा निर्दिष्टत्वादनित्यत्वं क्लृप्तम् एवेति कतमोऽयं पूर्वपक्षावसरः । अत एव पञ्जीकृता "अलोपे समानस्य" (३।३।३५) इत्यत्र स्थानिवद्भावनिषेधो नाभ्युपेयः इत्युक्तम् । प्राङास्ते इति । अथात्र ‘अन्च्' धातोर्हस्वोपधत्वात् 'पूर्वस्मिन् परनिमित्तादेशः' (कात० परि० सू० ४७) इति न्यायात् कथं द्विर्न स्यात् । नैवम् । ज्ञापकज्ञापितविधित्वाद् अनित्येयं