________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
-न् जिन पदों के अन्त में हों उन पदों की उपधा में स्थित हस्व वर्ण लेना चाहिए, जो ङ्--न् वर्णों से पूर्ववर्ती ही होंगे ।। ५२ ।
२१७
[दु० वृ०]
ङणनाः पदान्ता ह्रस्वोपधाः स्वरे परे द्विर्भवन्ति । क्रुङ, सुगण्णत्र, पचन्नत्र । ङणना इति किम् ? किमत्र । पदान्ता इति किम् ? वृत्रहणौ । ह्रस्वोपधा इति किम् ? प्राङास्ते ॥ ५२ ॥
[दु० टी० ]
ङणनाः । क्रुञ्चेः क्विप्, विरामे चवर्गस्य गत्वं स्यात्, नस्यानुस्वारो धुटि, वर्गे वर्गान्तः, संयोगान्तलोपश्च । गणयतेः क्विप् कारितलोपश्च । पचेः शन्तृङ् " अनुबन्धोऽप्रयोगी" ( ३।८।३१ ) इति विरामे संयोगान्तलोपश्चेति । ह्रस्व उपधा येषामिति बहुव्रीहाविह न भवति प्राङस्ति, प्राङास्ते, भवानाह, भवानिह । प्रपूर्वाद् अञ्चेः क्विप्, भातेर्डवन्तुः व्युत्पत्तिपक्षे ।
ननु ह्रस्वादित्यपि कृते सिध्यति किमुपधाग्रहणेन ? सत्यम् । 'संज्ञापूर्वको विधिरनित्यार्थ एव' (कात० परि० वृ० ३० ) । उणादिरनजः, अनन्तः, अनीश्वर इति । ननु उणादिरिति लोकोपचारात् सिध्यति । विपर्ययग्रहणसामर्थ्याद् विपरीतमात्रं तत्रेति तदा प्रपञ्चार्थमिदम् । समासोत्तरपदस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य पदकार्यं न दृश्यते इति परमदण्डिनि द्विर्न भवति । सिज्लुकि इति तृतीयाभावाद् भावकर्मणोर्न स्याद् द्वित्वाच्चेत्युन्नयन्त्यन्ये ।
ननु कुर्वन्नास्ते, कृष्यन्नास्ते " रषाभ्यां नो णः " ( ८|४|१) कथन्न भवति ? असिद्धं बहिरङ्गमन्तरङ्गे (कात० परि० सू० ३५) इति नकारो दन्त्य एव । ङ्गोः कटावन्तौ शषससुप्सु वा ! वर्णागमो यथासङ्ख्यम् - प्राङ्कुशेते, प्राङ् शेते । प्राषण्डः, प्राङ् षण्डः । प्राङ्कुसाधुः, प्रा साधुः । प्राक्षु, प्राषु । सुगण्ट्शेते, सुगण् शेते, सुगण्छेते । सुगण्ट्षण्डः, सुगण्षष्डः । सुगण्ट्साधुः, सुगण् साधुः । सुगण्ट्सु, सुगण्सु | सुप्ग्रहणं पदमध्यार्थम् । अप्रचुरप्रयोगत्वादिह न प्रतिपाद्यं लक्षणमिति ।। ५२ ।
[वि० प० ]
ङणनाः। क्रुङ्ङत्रेति । क्रुङ् शब्दस्य प्राशब्दवद् रूपसिद्धिः | सुगण्णत्रेति | गण संख्याने अदन्तः, “चुरादेश्च" ( ३।२।१ ) इतीन् । " अस्य च लोपः " ( ३ । ६ । ४९)