________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
२१५ (२।३।४६) इत्यादिना डकारः स्यात्, न च लाक्षणिकत्वाद् डत्वं न भविष्यतीति वाच्यम्, 'शब्दप्राड्' इति दर्शनात् । अथ धात्ववयवस्यैव डत्वम् इति चेत् तथापि तदित्याचष्ट इतीनन्तात् क्विपि कृते कारितलोपे धातुत्वाद् डत्वं स्यात्, तस्मात् कर्तव्यं चकारार्थं सूत्रम् इत्याहुः।
तन्न। साहचर्येण लिङ्गसंज्ञाकालीनशास्त्रस्य तत्राभ्युपगमात् कथमन्यथा 'प्रभाश्छन्दोविदः' इति । अत्र तु लिङ्गसंज्ञानन्तरमेव समासे सति शकारोऽयमिति । अन्ये तु चटतानित्यकरणाद् विसर्जनीयादेशस्याघोषे प्रथमो न स्यादिति वक्ष्यति । तस्य ज्ञापकस्य यदि सर्वोद्दिष्टत्वं स्यात् तदादिष्टस्य शिटः प्रथमो न स्यादित्यवश्यं चकारार्थं सूत्रं विधातव्यमित्याहुः।
वस्तुतस्तु पृथग्योगविधानात्, व्यतिक्रमनिर्देशाच्चास्मिन् सूत्रे पदान्ताधिकारो नास्ति । तेन 'अग्निचिद्' इत्यपदानुकरणस्यापि तकारस्य शकारे चकार इति । “अघोषे प्रथमः" (२।३।६१) इति अघोषे परे "पदान्ते धुटां प्रथमः" (३।८।१) इत्यर्थः । ननु अच्छत्वपक्षे वचनमित्युक्ते कथं 'तथ्लक्ष्णः' इति प्रत्युदाहृतम्, स्वरयवरपरत्वाभावादित्याह- किञ्चेति ।।५१ ।
[समीक्षा]
कातन्त्रव्याकरण तथा पाणिनीय व्याकरण के भी अनुसार 'तत् + श्लक्ष्णः' तथा 'तत् + श्मशानम्' इस स्थिति में 'त्' के स्थान में 'च' आदेश होकर 'तच्छलक्ष्णः' एवं 'तच्श्मशानम्' रूप निष्पन्न होते हैं । अन्तर यह है कि कलापव्याकरण में 'त्' के स्थान में 'च' आदेश करने का निर्देश है, जब कि पाणिनीय व्याकरण में तवर्ग के स्थान में चवर्गा देश का विधान किया गया है (स्तोः श्चुना श्चुः ८।४।४०)। ज्ञातव्य है कि शकार के परवर्ती होने पर पूर्व में तवर्ग के सभी वर्ण किन्हीं उदाहरणों में यदि देखे जाएँ, तब तो तवर्ग के स्थान में चवर्गा देश का विधान समीचीन कहा जा सकता है, परन्तु व्याख्याकारों ने इस प्रकार के उदाहरण प्रस्तुत नहीं किए हैं। अतः ऐसे स्थलों में तो त् के स्थान में च आदेश का ही विधान उचित कहा जाएगा, जैसा कि कलापकार का प्रकृत सूत्र है- "चं शे"।
[विशेष]
'तत् + श्लक्ष्णः, तत् + श्मशानम्' आदि स्थलों में “वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (१।४।३) सूत्र से शकार को छकारादेश, “पररूपं तकारो