SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २१४ कातन्त्रव्याकरणम् [दु० टी०] चं शे । छत्वपक्षे तु पररूपस्य छकारस्याघोषे प्रथम इति सिद्धत्वात् । स्वरयवरपरो हि शकारो विकल्पेन छत्वम् आपद्यते । मतान्तरेण 'तच्छच्योतति' इति शकारे अकार उच्चारणार्थ एव ।।५१ [वि० प०] चं शे । ननु किमर्थम् इदं “वर्गप्रथमेभ्यः०" (१।४।३) इत्यादिना शकारस्य छत्वे तकारस्य पररूपत्वे "अघोषे प्रथमः" (२।३।६१) इति सिद्धश्चकारः । एतदेव बालैरुपुष्यते - चंशे सूत्रमिदं व्यर्थं यत् कृतं शर्ववर्मणा। तस्योत्तरपदं ब्रूहि यदि वेत्ति कलापकम् ॥इति । अच्छत्वपक्षे वचनम् इदमिति । शकारस्य छत्वं विभाषितम् । ततो यस्मिन् पक्षे छत्वं नास्ति तदर्थं वचनमिदम् । किञ्च लानुनासिकपरस्य शकारस्य छत्वमिह सर्वथा नास्ति । अत एव 'तच्छलक्ष्णः' इत्युदाहृतम् ।। ५१ । [क० च०] कार्यिणस्तकारस्यास्वरस्य साहचर्याच्चकारमस्वरमिति वियानन्दः । ननु पूर्वस्मिन्नेव शकारो विधीयताम्, ततस्तकारस्य पररूपत्वे कृते आन्तरतम्यात् शकारस्य "पदान्ते धुटां प्रथमः" (३।८।१) इति कृते 'तच्छेतम्' इत्यादयः सिद्धाः, अतश्चकारार्थमिदं सूत्रम् । किमर्थं पुनरिदं वचनमिति ? अत्र कुलचन्द्रः- 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते' (काला० परि० ६३) इति । स्वरूपेणाप्रयोजकः स विधिर्बाध्यते इति । अस्यार्थः। उपदिश्यते इत्युपदेशः । यं विधिम् = यत् कार्यं प्रति उपदेशोऽनर्थकः = स्वरूपेणाप्रयोजकः, स विधिर्बाध्यते उपदेशेनैवेत्यर्थः । अतः पदान्ते धुटां प्रथमो न स्यात् । तस्माच्चकारार्थमिदं सूत्रं कर्तव्यम् । तच्च नातिपेशलम् – 'यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते' (कात० परि० सू० ५०) इति न्यायात् । तथा च शकारोपदेशस्य चकारविधानेनापि अनर्थकत्वाभावात् । कथमन्यथा 'सुपीः, सुतूः' इत्यत्र विसर्गः, 'चिकीर्षति' इत्यादौ इरादेश इति विद्यानन्दः । हेमकरप्रभृतयस्तु – 'यदि तकारस्य पररूपशकारो विधीयते, तदा 'तच्श्लक्ष्णः' इत्यत्र समासे "व्यञ्जनान्तस्य यत्सुभोः" (२।५।४) इत्यतिदेशात् 'हशषशान्त०'
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy