________________
सन्धिप्रकरणे चतुर्थी वर्गपादः
२११
"
सुखप्रतिपत्त्यर्थम् इदम् इति । चश्च टश्च चटौ तयोर्वर्गौ चटवर्गी, लश्च चटवर्गौ च ल-च-टवर्गाः । द्वन्द्वात् परं श्रूयमाणोऽपि वर्गशब्दो न लकारेण संबध्यते, लकारस्य वर्गत्वाभावात् । पदान्ताधिकारोऽपि न प्रयोजयति, पदमध्ये लकारेऽपि तकारो नास्ति, पदमध्ये चटवर्गादेशं च वक्ष्यति ॥ ५० ॥
[वि० प० ]
पररूपम्० । चश्च टश्च चटौ, तयोर्वर्गौ, लचटवर्गा इति पुनर्द्वन्द्वोऽयं लकारस्य वर्गत्वाभावात् । “पदान्ते धुटां प्रथमः” (३।८।१) इति एतदुपलक्षणम् । ‘तल्लुनाति’ इत्यादावपि अनेनैव प्रथमत्वम् ||५० |
,
[क० च०]
पर० । तज्जयतीति परत्वाद् विशेषविहितत्वाच्च "इज्जहातेः क्त्वि” (४|१ | ७५ ) इति निर्देशाच्च तृतीयं बाधित्वा अग्रतः पररूपम्, ततश्च तस्य जकारस्य स्थाने पदान्ते धुट प्रथमे कृते "घोषवति वर्गप्रथमा०" (३।८।१) इत्यादिना तृतीयः । “वा विरामे" ( २ । ३ । ६२) इत्यस्य तृतीयपक्षे “ पदान्ते धुटां प्रथमः " ( ३ |८|१) इत्यस्य विषयम् उपजीव्याह – पदान्त इति । एतदुपलक्षणम् इत्यादि । न च वक्तव्यम् - पदान्तरसंबन्धे महाविरामाभावान्निमित्ताभावे सति " वा विरामे ” (२।३ । ६२) इत्यस्यैव प्रवृत्तिर्नास्ति, कथमस्य विकल्पपक्षे “पदान्ते घुटां प्रथमः " ( ३ |८|१ ) इत्यस्य प्रवृत्तिरिति वाच्यम् । अन्तरङ्गं प्राक् प्रवृत्तं कार्यम्, बहिरङ्गेण पदान्तरसंबन्धेन नापसार्यते इति न्यायात् ।
ननु “तकारो लचटवर्गेषु ” (१।४।५) तानिति कृते तकारस्तानिति वर्णद्वयमपि प्रतिपद्यते इति कुलचन्द्रः । तन्न, शब्दस्य मुख्यार्थसंभवे स्वाभिधेयं प्रति लक्षणाया अन्याय्यत्वात् । मुख्यार्थबाधे सति लक्षणा क्रियते, अन्यथा स्थितिपक्षेऽपि पररूपशब्दमापद्यते इति कथन्न स्यात् । अत्र विद्यानन्दः, पररूपग्रहणाद् विकृतिर्न भवतीति । तेन 'सोमसुच्चक्षुः, सोमसुञ्जङ्घा' इत्यत्र पररूपे कृते " चवर्गदृगादीनां च " ( २ | ३ | ४८) इति गत्वं न स्यात् । न च ' असिद्धं बहिरङ्गम् अन्तरङ्गे' (कात० परि० सू० ३५ ) इति न्यायादेव गत्वं न स्यादिति वाच्यम्, समासाश्रयत्वेन गत्वस्यैव बहिरङ्गत्वात् । यद्येवम्, अत एव पररूपग्रहणात् 'तज्झासयति' इत्यत्र पदान्ते धुटां प्रथमोऽपि न स्यात् । नैवम्, टामिति बहुवचनस्य व्यक्त्यवधारणार्थत्वात् ।
तथा च तत्र टीकायाम् उक्तम्, धुटामिति व्यक्तिरवशेषग्राहिणीत्याचष्टे । यद् वा लाक्षणिकत्वादेव गत्वाभावः सिद्धः । न च वर्णविधौ लक्षणप्रतिपदोक्तयोरिति