________________
सन्धिप्रकरणे द्वितीयः समानपादः [दु० वृ०] एकारोऽय् भवति असवर्णे, न च परो लोप्यः । नयति, अग्नये ||३५| [दु० टी०] ए अय् । ए- इत्यस्य षष्ठी लुप्यते, लुप्तप्रथमा वा निःसन्देहाय । उक्तञ्च -
आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च।
विभक्तिपदवर्णानां दृश्यते शावमिके॥ 'अग्नये' इति द्वौ द्वौ समानौ सवर्णावन्योऽसवर्ण इति व्यावर्तनात् सिद्धम् ।। ३५।
[वि० प०]
ए०। इह उत्तरत्र च सम्बन्धानामनिमित्तकानामयादेशाभावाद्यर्थम् असवर्ण इति वृत्ती योज्यम् । अत एव श्रीपतिनापि “तौ नामिनोऽसवणे स्वरे वा प्रकृतिः' (कात० परि०, सं० २८) इत्यत्र समानानुवृत्त्या समानस्य नामिन इति किम् ? श्रिया इन्दुः, पाणावाज्यम् इति प्रत्युदाहृतम् । प्रयोजनाभावान्नानुवृत्तिरिति चेत्, निरपेक्षव्यावर्तनाय सफलत्वादिति ।।३५।
[क० च०] ए अय् । अत्र षष्ठी प्रथमा वा लुप्यते निःसन्देहार्थम् । उक्तं च
आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च।
विभक्तिपदवर्णानां दृश्यते शावमिक ॥ आदिलोपो विभक्तेर्यथा- औरीम् (२।२।९) । अन्तलोपः पदस्यैवात्र, तथा क्रुञ्चेदित्यादौ । “से गमः परस्मै, नव पराण्यात्मने" (३।७।६; १।२) इत्यत्र च पदशब्दोऽपि कैश्चिदनेन लुप्यते । तन्न, संज्ञाया बहुलम् अन्तलोपं वक्ष्यति । यथा - भीमो भीमसेन इति । मध्यलोपो वर्णस्य स्वरूपेण मध्यभूतस्य वर्णस्य लोप इत्यर्थः । यथा “यदुगवादितः" (२।६।११) इति कुलचन्द्रः। धयतीत्यलाक्षणिकं परित्यज्य 'नयति, अग्नयः' इति लाक्षणिकस्यापि यदुदाहृतं तल्लाक्षणिकस्यापि भवतीति ज्ञापनार्थम्, तच्च विभक्तय इति ज्ञापकवशात् । तन्न । वर्णविधौ लाक्षणिकपरिभाषाया अनादरात् ।