________________
सन्धिप्रकरणे द्वितीयः समानपादः
१४३ (काला० परि० ४२) इति न्यायात् । हे छात्र ! इति "आमन्त्रणे च" (२।४।१८) इति सेर्विहितस्य ह्रस्वनदीत्यादिना लोपः । अद्यशब्दाद् "अव्ययाच्च" (२।४।४) इति सेर्लोपः। 'अद्योम्, सोम्' इत्योम्शब्दस्याव्ययत्वादसमासे दर्शितम् । अक्षस्येत्यादि। ऊहनमूहः, भावे घञ्, सोऽस्या अस्तीति ऊहिनी, अक्षाणामूहिनी अक्षौहिणी सेना | अत्रापिशब्दबलात् पूर्वपदस्थेभ्यः संज्ञायां णत्वम् ।
प्रस्येत्यादि। ऊहेऽप्यौत्वमित्येके-प्रौहः । एषैष्ययोरैत्वमिति उपसर्गावर्णलोपो धातोरेदोतोरित्यनेनावर्णलोपः प्राप्तस्तस्यापवाद इत्यर्थः। ईषेस्त्वित्यादि । ईष गतौ' इत्यस्य पुनर्धातोर्गुरूपधत्वाद् घञि घ्यणि च गुणाभावे "अवर्ण इवणे ए" (१।२।२) इत्यर्थः । तेन एषैष्ययोरैत्वं विभाषयेति न वक्तव्यम्, प्रकृत्यन्तरविवक्षया सिद्धत्वादिति भावः ।।३०।
[क० च०] ओकारे० । नन्वित्यादि । तथा चाह -
पूर्व निपातोपपदोपसर्गः सम्बन्धमासादयतीह धातुः।
पश्चात्तु कादिभिरेष कारकैर्वदन्ति केचित्त्वपरे विपश्चितः॥ अयं चार्थो न्यायसिद्धः । तथाहि उपसर्गस्य धात्वर्थद्योतकत्वादादौ धात्वर्थेन सह उपसर्गस्य संबन्धः, तच्छरीरनिविष्टत्वात् । धातूपसर्गयोस्तदा कः सम्बन्धः, प्रत्ययस्य तु प्रकृत्यान्वितस्वार्थबोकत्वात् प्रकृत्यर्थनिश्चये सति पश्चादर्थेन प्रत्ययार्थसम्बन्ध इति ।
अतः प्रत्ययार्थसम्बन्धादुपसर्गसम्बन्धोऽन्तरङ्ग इत्यवश्यमेवाङ्गीकर्तव्यम् । कथमन्यथा खट्वा अधिशय्यते इत्यादावुपसर्गसम्बन्धः पश्चादकर्मकात् शीधातोः कर्मणि प्रत्ययः । अस्य कर्मण उक्तार्थता अत्रादावकर्मकाच्छीङ्धातोः भावे प्रत्यये पश्चादुपसर्गसम्बन्धे सकर्मकत्वस्य सम्भवात् । किं निविशत इत्यात्मनेपदोत्पत्त्यर्थं पूर्व धातुरुपसर्गेण सम्बध्यते किं पूर्वलोपेनेति । किंशब्दादत्रेत्यध्याहार्यम्, अन्यथा कथं प्रेजते, प्रोर्णतीत्यत्र पूर्वलोप इति । सत्यमित्यादि। यद्यपि आदावुपसर्गेण धातोः सम्बन्धो युक्तस्तथापि साध्यसाधनरूपायाः क्रियायाः साधनसम्बन्ध एव प्रथमतो गृह्यत इति
१.
ईष गतिहिंसादानेषु (कात० धा० पा० १।४३३)।