________________
१४२
कातन्त्रव्याकरणम्
इणेधत्योर्न। उपैति, उपैधते । नामधातोर्वा । उपेकीयति, उपैकीयति । प्रोषधीयति, प्रौषधीयति । ओष्ठोत्वोः समासे वा । बिम्बोष्ठः, बिम्बौष्ठः | स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे छात्रौष्ठं पश्य, अद्यौतुं पश्य । ओमि च नित्यम् । अद्योम्, सोम् इत्यवोचत् । अक्षस्यौत्वमूहिन्याम् । अक्षौहिणी सेना | प्रस्योढोढ्योश्च। प्रौढः, प्रौढिः । एषैष्ययोरैत्वं लोपस्यापवादः । प्रैषः, प्रैष्यः । ईषस्तु प्रेषः, प्रेष्यः ||३०|
[दु० टी०]
ओकारे० । उपसर्गावर्णलोपो धातोरेदोतोरिति । यद्यपि धातोः प्रागुपसर्गेण सह सम्बन्धः पश्चात् साधनेनेति । तथापि धातोः प्रधानत्वात् तत्कार्यं बलीय इति गुणे कृते ऐत्वादिकं स्यादिति पूर्वलोपो विधीयते । उभयपदाश्रितोऽपि वार्णो विधिरन्तरङ्ग इति अस्मादेव ज्ञापकाद् बाध्यते इति अन्ये ।ओष्ठश्च ओतुश्च ओष्ठौतुः, पूर्वनिपातोऽत्र विवक्षया । स्त्रियां तु बडवोष्ठी, बडवौष्ठी । ओमि च नित्यमिति । अद्योम्, सोम् । एवं रथोङ्कार इति । ऊहनमूहः सोऽस्या अस्तीति ऊहिनी, अक्षाणामूहिनी, अक्षान् ऊहितुं शीलमस्या इति वा अक्षौहिणी सेना | समासान्तसमीपयोर्वा णत्वम् । प्रस्योढोढ्योश्चेति ऊहेऽप्यौत्वमित्यन्ये । न वक्तव्यम्, इह लोकोपचारादेव सिद्धिरिति ।।३०।
[वि० प०]
ओकारे०। प्रेलयतीति। प्रपूर्वाद् इल प्रेरणे चौरादिकत्वात् स्वार्थे इन्, "नामिनश्चोपधायाः" (३।५।२) इत्यनेन गुणः । परोखतीति । उख णखेत्यादिदण्डको 'धातुः । “अनि च विकरणे" (३।५।३) इति गुणे कृते ऐत्वम् औत्वं च प्राप्तम् । अतः पूर्वलोपो विधीयते । ननु धातोः प्रागुपसर्गेण सम्बन्धः पश्चात् साधनेनेति गुणात् प्रागुपसर्गावर्णस्यैव एत्वे ओत्वे च कृते प्रेलयति, परोखतीति सिद्धं भवति, किं पूर्वलोपेन ? सत्यम्, तथापि क्रियाभावो धातुः । क्रिया च साधनायत्ता, साधनं च प्रत्ययवाच्यम् । अतः प्रत्ययकार्यमेव गुणः पूर्वं स्यात् । किं च पूर्वं धातुः साधनेन सम्बध्यते इति पश्चादुपसर्गेणेत्यस्मिन् दर्शने चोद्यमेव नास्तीति कर्तव्यः पूर्वलोपः । नामघातोति । इहापि पूर्ववद् यिन्नादिकं कार्यम् । अथात्र पूर्वलोपे कृते "वर्गप्रथमा०" (१।४।१) इत्यादिना स्वरे तृतीयः कथं न स्यादिति न देश्यम्, 'असिद्धं बहिरङ्गम् अन्तरङ्गे'
१. उख णख वख रख लख लखि इखि ईखि वल्ग रगि लगि अगि वगि मगि ष्वगि इगि रिगि
लिगि गत्यर्थाः (कात० धा० पा० ११३८)।