________________
११०
कातन्त्रव्याकरणम् २२. अनतिक्रमयन् विश्लेषयेत् (१।१।२२) [सूत्रार्थ] सम्मिलित वर्गों का विभाग विना ही अतिक्रमण किए करना चाहिए ।।२२। [दु० वृ०]
वर्णान् संघटितान् संमिलितान् अनतिक्रमयन् विश्लेषयेद् विघटयेदित्यर्थः । वैयाकरणः, उच्चकैः । असंमोहार्थोऽयं योगः ।।२२ ।
[दु० टी०]
अनति० । अतिपूर्वात् क्रमेहेत्वर्थविवक्षायामिन् । वर्तमाने शन्तृङ् । अन्विकरणे गुणः । पश्चान्नसमासः । विपूर्वात् श्लिषेस्तथैवेन्, पूर्ववत् सप्तमी । अन्विकरणे कृते "या- शब्दस्य च सप्तम्या" (३।६।६४) इतीत्वम् । अथवा अतिक्रमम् अकुर्वन् विश्लेषं कुर्यादिति लिङ्गादिन् । वैयाकरण इति । तद् वेत्त्यधीते" (२।६।७) वाऽण् । यकारस्य विश्लिष्टस्य "न य्वोः पदाद्योः” (२।६।५०) इत्यादौ वृद्धिरागमः । उच्चकैरिति विश्लिष्टादैकाराद् “अव्ययसर्वनाम्नः स्वरादन्त्यात् पूर्वोऽक्कः" (२।२।६४) भवति ।।२२।
[वि० प०]
अनति० ।अथ किमर्थमिदम्, यावता “न य्वोः पदाद्योवृद्धिरागमः" (२।६।५०) इति वोरादौ वृद्धिविधानात् तथा “अव्ययसर्वनाम्नः" (२।२।६४) इत्यादिना चान्त्यात् स्वरात् पूर्वम् अग्विधानाद् अर्थाद् विश्लेषो भविष्यतीति । स च क्रमेणैव, व्यतिक्रमेण प्रयोजनाभावादित्याह – ‘असंमोहार्थोऽयं योगः' इति ।।२२।
[क० च०]
अनति० । अत्र क्रियाद्वयस्य उपाध्यायः शिष्यो वा कर्ता | ननु व्यतिक्रमेण प्रयोजनाभावादिति किमुक्तम्, अन्यप्रकाररूपसिद्धिरेव प्रयोजनं भवतु | नैवम्, क्रमसम्भवे सति व्यतिक्रमेण विश्लेषे कारणं वाच्यम्, अतः प्रयोजनाभावात् कारणाभावादित्यर्थः । संमोहस्तु संहितोच्चारणेन पूर्वभागस्यावष्टब्धतया वृद्ध्यागमादिकं क्व भविष्यतीति सन्देहरूपः । वैयाकरणः, उच्चकैरिति यद् दर्शितं तद्विश्लेषस्य ज्ञापकसूत्रद्वयस्य विषयदर्शनाज्ज्ञापकेनैव विश्लेषः सिद्धः । सूत्रमिदमसंमोहार्थमिति भावः ।