________________
९८
कातन्त्रव्याकरणम् यद्येवं वर्णसमाम्नायेऽपि पश्चात् पाठो युज्यते ? सत्यम् । स्वरव्यञ्जनयोर्मध्ये पाठ उभयसमीपत्वादुभयव्यपदेशार्थो भवति हि तत्समीपत्वात् तद्व्यपदेशः । यथा गङ्गासमीपो देशो गङ्गेति, उपचारात् । अनुस्वारविसर्जनीययोरपि क्रमपरिपठितयो~तिक्रमेण संज्ञाविधानं स्वरव्यञ्जनाभ्यामनयोरप्यभिन्नसन्निकृष्टत्वप्रतिपादनार्थं तेनोभयोः प्रत्येकमुभयसंज्ञा सिद्धेति भावः । अन्यथा अनुस्वारस्य स्वरसन्निधानात् स्वरसंज्ञैव स्यान्न व्यञ्जनसंज्ञा, विसर्जनीयस्य व्यञ्जनसन्निधानाद् व्यञ्जनसझैव स्यात् न स्वरसंज्ञा, तेन स्वरत्वात् स्वरकार्यम्, विसर्जनीयस्य व्यञ्जनत्वाद् व्यञ्जनकार्यम् अनयोस्तत्र तत्र वक्ष्यति, तथा विसर्जनीयादेशयोरपि जिह्वामूलीयोपभानीययोः प्रतिपत्तव्यम् । अत एव विसर्जनीयादयो योगवाहा इहोच्यन्ते, युक्ताः सम्बद्धा वहन्तीति योगवाहाः ।।१९।
[क० च०]
अं। बिन्दुमात्र इति, स चार्द्धचन्द्राकृतिः तिलकाकृतिश्चेति वररुचिः। ॐकारादौ अर्द्धचन्द्राकृतिः पयांसीत्यादौ तिलकाकृतिरिति । अनुस्वर्यते इत्यनुशब्दः संश्लेषे पूर्ववर्णेन संश्लिष्टिर्यथा स्यात् तथोच्चार्यते इत्यर्थः । तथा चोक्तम् – व्यञ्जनता स्वरसन्धौ स्वरता णत्वविधौ योगवाहानां x क con पोः परगग्नार्थं व्यञ्जनतेष्टानुशिष्टिकृता । x क com पोरिति जिह्वामूलीयोपध्मानीययोरित्यर्थः । अनुशिष्टिकृता शब्दशासनकृता इत्यर्थः । तथा च 'अग्निः' इति, अत्र विसर्गस्य व्यञ्जनत्वाद् इवर्णस्य न यत्वम् । 'उर x केण, उर ८०० पेण' इत्यत्र जिह्वामूलीयोपध्मानीययोः स्वरत्वात् तदन्तरितेनापि णत्वं सिद्धम्, अनयोर्व्यञ्जनत्वात् परगमनमपि सिद्धम् । प्रयोगानुसारेणान्यदप्यूह्यम् । अत एवेत्यादि इत्यस्मिन् व्याकरणे इत्यर्थः । स्वरव्यञ्जनत्वाभ्यां युक्ताः सम्बद्धा वहन्तीत्यर्थः । अस्मिन् पक्षे युज्यते इति योगः, कर्मणि घञ् । वहन्तीति वाहाः, ज्वलादित्वाण्णः । श्रीपतिस्तु केवलानामुच्चारणाद् वर्णान्तरयोगं वहन्तीति योगवाहाः। कुलचन्द्रस्तु संज्ञात्वेन स्वरव्यञ्जनयोर्योग संबन्धं वहन्तीति ।।१९।
[समीक्षा]
कलापकार ने स्वर वर्णों के बाद आने वाले एक बिन्दुमात्र की अनुस्वार संज्ञा की है। यह बिन्दु भी दो प्रकार का माना जाता है - १. तिलक (तिल) की तरह तथा २. अर्धचन्द्राकार | पाणिनि ने अनुस्वार का व्यवहार "मोऽनुस्वारः" (पा० ८।३।२३) आदि सूत्रों में विधि के रूप में किया है, परन्तु संज्ञासूत्र नहीं