________________
सन्धिप्रकरणे प्रथमः सज्ञापादः [ दु० टी०]
अं। अनुस्वर्यते संलीनं शब्दयते इत्यनुस्वारः। “अकर्तरि च कारके संज्ञायाम" (४।५।४) इति कर्मणि घञ् । एवमर्थे इतिशब्दः आविर्भावार्थः । ननु विसर्जनीयादिसंज्ञाः क्रमेणैव कर्तुं युक्ता इति स्वातन्त्र्येणानवस्थानादप्रधानतेति पश्चात् क्रियन्ते । तथा च "रेफसोर्विसर्जनीयः, मनोरनुस्वारो घुटि" (२।३।६३; २।३।४४) तथा "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (३।३।३१) इति स्वतन्त्रश्चेत्, न । तस्याप्यभ्यासापेक्षत्वात् । पाठस्तु “स्वरव्यञ्जनयोर्मध्ये उभयसमीपत्याद् उभयव्यपदेशार्थो भवति हि तत्समीपत्वात् तद्व्यपदेशः । यथा गङ्गासमीपो देशो गङ्गेति | तेनाग्निः, पटुः, कृतेः, पशोरिति इवणदिर्यत्वादिकमसवर्णे विसर्जनीये व्यञ्जने सति न भवति । उर+केण, उर 40 पेणेति स्वरान्तरत्वाज्जिह्वामूलीयोपध्मानीयाभ्यामपि णत्वं व्यञ्जनत्वात् परगमनं चानयोरिति । विसर्जनीयानुस्वारयोस्तु नैवम्, परगमनमन्वर्थसंज्ञाविधानात् ।
अथ पन्था इति निलोपः कथं न स्यात्, नैवम् “अघुट्स्वरे" (२।२।३७) इति विशेषवचनात् (विशेषणबलात्) णत्वे तु नुविसर्जनीयग्रहणमनर्थक स्वरान्तरत्वात् सिद्धं बृंहणमिति । तत्र हि नुरित्यनेन नुसम्भवोऽनुस्वारः प्रतिपत्तव्यस्तेन पुंस्विति षत्वं न भवति । वर्णसमाम्नाये क्रमपरिपठितयोरनुस्वारविसर्जनीययोर्व्यस्तसंज्ञाविधानम्, आभ्यां सह स्वरव्यञ्जनयोरभिन्नसन्निकृष्टत्वाविर्भावार्थम् । एवं सत्यमी इह योगवाहाः एवोच्यन्ते । प्रत्याहारवादिनः पुनराहुः- 'अयोगवाहाः' इति । कथं पुनरयोगवाहाः, ‘अयुक्ता वहन्त्यनुपदिष्टा अपि श्रूयन्ते' इति ।।१९।
[वि० प०] ___अं इति । अनुस्वर्यते संलीनं शब्द्यते इत्यनुस्वारः। कर्मणि घञ् । ननु वर्णसमाम्नायस्य क्रमसिद्धत्वात् सन्ध्यक्षरसंज्ञानन्तरमेवानुस्वारविसर्जनीययोः संज्ञानिर्देशो युज्यते, तत् कथं व्यतिक्रमनिर्देशः ? सत्यम्, अनयोरप्रधानत्वात् पश्चात् संज्ञानिर्देशः। तथाहि "मनोरनुस्वारो घुटि, रेफसोर्विसर्जनीयः" (२।४।४४; ३।६३) इत्यत्र न क्वचित् स्वातन्त्र्येणानुस्वारविसर्जनीयौ स्तः । अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्येत्यस्याप्यभ्यासापेक्षत्वात् ।