________________
कातन्त्रव्याकरणम्
[दु० वृ०]
अकार इहोच्चारणार्थः । अः इति कुमारीस्तनयुगाकृतिवर्णो विसर्जनीयसंज्ञो भवति ।विसर्जनीयप्रदेशाः- "विसर्जनीयश्चे छे वा शम्"(१।५।१) इत्येवमादयः ।।१६।।
[दु० टी०]
अः। विसृज्यते विरम्यते इति विसर्जनीयः। अनीय इति कर्मप्रत्ययोपलक्षणम्, तेन विसृष्टो विसर्ग इति च संज्ञा सिद्धेति ।।१६।
[वि० प०]
अः। येन विना यदुच्चारयितुं न शक्यते, तत्तस्योच्चारणार्थमिति । अकारमन्तरेण विसर्जनीयस्योच्चारयितुमशक्यत्वाद् अकार उच्चारणार्थो भवति । यथा कादिष्वकार उच्चारणार्थः । अन्यथा "व्यञ्जनमस्वरं परम्" (१।१।२१) इत्यनेन परगमने सत्युच्चारयितुमशक्यत्वादिति । विसृज्यते विरम्यते इति विसर्जनीयः, कर्मण्यनीयप्रत्ययः । स चोपलक्षणम्, तेनेतरकर्मप्रत्ययान्तेनापि विसृजतिना संज्ञा सिद्धा, विसृष्टो विसर्ग इति ।।१६।
[क० च०]
अः। अ इत्यन्तं पदमिति कुलचन्द्रः। तन्न । इतिभागस्यैव पदत्वात् । तत् पूर्वभागस्य तु अनेनैवोक्तार्थत्वाद् विभक्त्यनुपपत्तेरपदत्वमेव । नहि पदापदसमुदायस्य पदत्वमस्ति | तस्माद् 'अः' इति न पदमिति लुप्तप्रथमैकवचनं पदमितिशब्दः स्वरूपाविर्भावार्थः। स्तनयुगाकृतिरिति यद् वृत्तौ बोध्यम्, तन्न । नियमस्य वर्णस्याकृत्यसम्भवाद् आकृतिपदं लिपिकृतं बोद्धव्यम्, एवमुत्तरेष्वपि | विरम्यते इति विपूर्वः सृजिरुपरमे वर्तते, परवर्णैः सह संयुज्यते इत्यर्थः । तथा चोक्तम् - "अनुस्वारो विसर्गश्च द्वावेतौ पूर्वसङ्गतौ" इति । स चोपेत्यादि । लोकव्यवहारात् क्तघोरेव उपलक्षणं बोद्धव्यं तव्यादियोगे संज्ञाया अप्रतीतेरिति भावः ।।१६।
[समीक्षा]
जो 'जिह्वामूलीय - उपध्मानीय - सत्व - षत्व' आदि विविध रूप प्राप्त करता है, उसे विसर्ग या विसर्जनीय कहते हैं - विविधरूपेण सृज्यते संसृज्यते जिह्वामूलीयादिरूपैरिति विसर्जनीयः । यतः स्वरवर्णों के ही अनन्तर विसर्ग रहता है | अतः उसके उपलक्षणार्थ कलापसूत्रकार ने 'अ' स्वर का पाठ सूत्र में किया है |