________________
९०
कातन्त्रव्याकरणम्
इत्यादि । शिडिति पूर्वं सज्ञापदं निक्षिप्येतिशब्देन संताड्य यत् शादय इति संज्ञित्वेन निर्दिश्यन्ते तदेवंप्रकारा लघुसंज्ञाः कर्तुं शक्यन्त एव । स्वरादयो ह्यन्वर्था नित्या इत्यन्वाख्यातव्याः । वृक्षशब्दस्य वृसंकेतं क्षसंकेतं वा कृत्वा व्यवहरतो लोके किं नाम वैदग्ध्यमस्तीत्यभिप्रायः । तेन ऊष्मधर्मयोगाद् ऊष्माण इहोच्यन्ते ।।१५।
[वि० प०]
ऊष्माणः। ननु किमर्थमूष्मसंज्ञा विधीयते । न ह्यस्याः शास्त्रे फलमस्ति । तथा चामीषामाख्याते शिट्संज्ञा व्याख्यास्यते, तस्या एव फलमस्ति "शिट्परोऽघोषः" (३।३।१०) इत्यादिषु, तेन सैव विधातव्या, नेयमित्याह - शिट इत्यादि । इतिशब्द: एवं प्रकारे द्रष्टव्यः । एतदुक्तं भवति शादीनां कार्यित्वात् पूर्वनिर्देशे प्राप्ते यत् सञ्ज्ञामादौ निर्दिशति तदेवंप्रकारा लघुसंज्ञाः कर्तुं शक्यन्त एवेति एतदिहाकूतम् । न वयं सज्ञान्तरं विधातुमुद्यताः, अपि तु पूर्वाचार्यप्रसिद्धसंज्ञाव्याख्याने कृतारम्भाः।
ननु पूर्वाचार्या अपि वैयाकरणत्वाद् लाघवम् अभिलषन्तः किमिति गरीयसीः स्वरादिसंज्ञाः प्रणीतवन्तः इति ? सत्यम्, अन्वर्थत्वात् तासामित्ययमर्थः। द्विविधं हि लाघवं भवति- शब्दकृतमर्थकृतं चेति । तत्रार्थकृतमेव लाघवं परार्थप्रवृत्तत्वात्तेषामभीष्टम् । अतः शर्ववर्माऽपि तथा प्रतिपादयति । न हि वृक्षशब्दस्य वृसंकेतं क्षसंकेतं वा कृत्वा व्यवहरतो वैदग्धी काचिदस्ति । तथाहि ऊष्मधर्मयोगाद ऊष्माण इति । एवम् अन्यासामपि संज्ञानामन्वर्था ऊहनीयाः। एता इति। स्वरादिसंज्ञा अन्वर्था इति, अनुगतोऽर्थो यासामिति विग्रहः ||१५|
[क० च०]
ऊष्माणः। उष दाहे इत्यस्य निपातः । वररुचिना त्विदं सूत्रं न पठितम्, निष्फलत्वात् । ननु ऊष्मसंज्ञापि विपरीतनिर्देशात् कथं संज्ञापिका न भवति, नैवं ज्ञाप्येतिशब्दयोरभावात् । ननु ऊष्मसंज्ञामपनयन्ती शर्ववर्मसामर्थ्य प्रतिपादयन्ती शिट्संज्ञा कथं न क्रियते ? ऊष्मसंज्ञैव व्यवहियतामिति चेत्, न । आचार्यसामर्थ्यप्रकाशनार्थमवश्यं शिट्संज्ञाया वक्ष्यमाणत्वात्, तर्हि एतदर्थमेव आचार्येण सर्वा एव लघुसंज्ञाः कथन्न कृता इत्याशङ्क्याह - एतदिहाकूतमिति । अयमभिप्राय इत्यर्थः । ऊष्मधर्मयोगादिति उच्चारणे यो मुखं तपति स एव ऊष्मधर्म इति । अन्वर्था इत्यादि । उच्चारणादेवार्थः प्रतीयत इत्यर्थः ।।१५।