________________
७६
कातन्त्रव्याकरणम्
[वि० प० ]
कादीनि । व्यज्यन्ते एभिरिति व्यञ्जनानि | स्वराणामर्थप्रतिपादने उपकारकाणि । यथा सूपादीन्योदनस्येत्यर्थः || ९ |
[क० च०]
कादीनि । ननु पूर्वसूत्रे सामीप्यार्थस्य ग्रहणे तु पुनरुक्त इति कथं तस्य न ग्रहणम् ? सत्यम्, इहापि " पूर्वोऽक् कः " ( २ |२| ६४ ) इति परगमनेन ज्ञापकमिति हेमकरः। तन्न, असत्यपि तस्य सूत्रस्वावकाशे स्वभावादेव परगमनस्य सिद्धत्वात् । अत एवैतत् सूत्रं सुखार्थमिति व्याख्यास्यामः । तस्मात् ककाराद् “व्यञ्जनाच्च” (२।१।४९) इति सेर्लोपः इति ज्ञापकमिति युक्तम् । “स्कोः संयोगाद्योरन्ते च” (३।६।५१) इत्यत्र संयोगव्यवहारादिति अनयोरनन्तरः संयोग इति पाणिनिस्मरणात् ।
ननु हकारपर्यन्तानि इति कथमुक्तं क्षकारस्यापि विद्यमानत्वात्, नैवम्, क्षकारस्योक्तवर्णेष्वेवान्तर्भावात् । कथन्तर्हि वर्णसमाम्नाये तदुपदेश इति चेत् ? कादीनां संयोगसूचनार्थमिति न दोषः । व्यज्यन्ते एभिरिति स्वरप्रतिपाद्या अर्था द्योत्यन्ते इत्यर्थः । ननु किमर्थमिदं यत्र यत्र व्यञ्जनग्रहणं तत्र तत्रास्वरग्रहणं क्रियताम् । नैवम्, “अस्वरे चैषां निः” इति कृते पन्था X करोतीति जिह्वामूलीयेऽपि नकारलोपः स्यात्, नैवम् “असिद्धं बहिरङ्गमन्तरङ्गे" (कात० परि० ३५ ) इति न्यायात् जिह्वामूलीये न भविष्यति, तर्हि विसर्गेऽपि स्यादिति चेत्, अथ सौ परे कथन्न स्यात्, स्थितिपक्षेऽप्ययं पूर्वपक्षस्तत्रावश्यं व्याख्येयः । अघुट्स्वरसाहचर्याद् व्यञ्जने घुट्येव ततश्चात्रापि तदेव वाच्यम् सत्यम् । सञ्ज्ञापूर्वकव्यवहारः सुखार्थ इति || ९ | [समीक्षा]
कू से लेकर हू तक के वर्णों की व्यञ्जनसंज्ञा कलाप में तथा 'हल्’ संज्ञा पाणिनीय व्याकरण में की गई है । स्वरवर्णों का अर्थ निश्चय करने में उपकारक होने के कारण, स्वरों का अनुसरण करने के कारण अथवा स्वरप्रतिपाद्य अर्थों को द्योतित करने के कारण इन वर्गों को व्यञ्जन कहते हैं । व्यज्यन्ते एभिरिति व्यञ्जनानि । इस प्रकार कलापव्याकरण की यह संज्ञा अन्वर्थ है और पाणिनि की सर्वथा कृत्रिम |