________________
सन्धिप्रकरणे प्रथमः सज्ञापादः
७५ वाजसनेयिप्रातिशाख्य- सन्ध्यक्षरं परम् (१। ४५)। गोपथब्राह्मण- सन्ध्यक्षरमवर्णलेशः पूर्वो विवृतकरणस्थितश्च (१।१।२७)। ऋक्तन्त्र- (१।१)। काशकृत्स्नधातुव्याख्यान - सन्ध्यक्षराणाम् आकारः (सू० २६)।
पाणिनि ने इन वर्गों का बोध ‘ऐच्' प्रत्याहार से कराया है । इस प्रकार एकारादि ४ वर्गों की सन्ध्यक्षर संज्ञा अन्वर्थ है और ‘ऐच' का प्रयोग हस्तचेष्टावत् यादृच्छिक या सांकेतिक है ।।८।
९. कादीनि व्यञ्जनानि (१।१।९) [सूत्रार्थ] क् से लेकर ह् (अथवा क्ष) वर्ण तक की व्यञ्जनसंज्ञा होती है ।।९। [दु० वृ०]
ककारादीनि हकारपर्यन्तानि व्यञ्जनसंज्ञकानि भवन्ति । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न प फ ब भ म, य र ल व, श ष स ह । व्यञ्जनप्रदेशाः - "व्यञ्जनमस्वरं परं वर्ण नयेत" (१।१।२१) इत्येवमादयः ।।९।
[दु० टी०]
कादीनि । वर्णसमाम्नाये कादिष्वकार उच्चारणार्थः । इह पूर्वस्मिंश्च विशेषस्याविवक्षितत्वात् सामान्यरूपं नपुंसकलिङ्गमेव प्रयुज्यते । व्यज्यन्ते एमा। व्यञ्जनानि, यथा सूपादीनि ओदनस्य इत्यर्थः । तथेमान्यपि व्यञ्जनानि स्वरस्येति । ननु यत्र व्यञ्जनसञ्ज्ञा प्रयोजनं तत्रास्वरग्रहणमेव किमिति न कुर्यात् । वाक्, तडिदिति
अन्वयाच्चेति सेर्लोपो भविष्यति, नैवं विसर्जनीयादेशा अप्यन्वया भवितुमर्हन्ति । ततश्चान्वये चैषान्निरिति' सूत्रे स्थिते ‘पन्था x करोति, मन्था " फलति' इति निलोपः स्यात् । अथासिद्ध बहिरङ्गमन्तरले (कात० परि० ३५) इति जिह्वामूलीयोपध्मानीययोर्न भवतीति तर्हि विसर्जनीये केन निवार्यते ।।९।
१. व्यञ्जने चैषां निः (कात० २।२।३८)।