________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
नन्वेवं दीर्घप्लुतयोरपि प्रत्येकं भेदो वक्तव्य इति किमुक्तम् ? अकारादीनामपि प्रत्येकं भेदो वक्तव्य इति वक्तुं युक्तम् । एवमाकारादीनामपि प्रत्येकं भेद इति वक्तुमुचितम् | एवं सति तथेवर्णादयोऽपीति न वक्तव्यं भवति ? सत्यम्, एतदुक्तिभङ्ग्याऽवर्णस्य अष्टादशभेदभिन्नतामापाद्य एतेषां सवर्णानामष्टादशभेदत्वं सूचयति । एतेन एकारादीनां न समानसंज्ञत्वम्, तेषां ह्रस्वत्वाभावेन दीर्घप्लुतत्व-निबन्धनाद् द्वादशप्रकारभेदभिन्नत्वादिति । दशग्रहणव्यावृत्त्या 'ए' - प्रभृतीनां समानसंज्ञा न स्यादिति कुसिद्धान्त एव, एतद्व्यावर्तनार्थकत्वादर्थनिर्वचनस्य वैफल्यात् ।
५३
--
यद्येवमकारस्याकारेण कथं साम्यम् अष्टादशप्रकारभेदभिन्नत्वरहितत्वात् । तथाहि अकारे षट्प्रकारादभिन्नत्वम्, आकारे च द्वादशप्रकारभेदभिन्नत्वमिति । अत एव वैद्यःअकारादिभिन्न एव आकारोऽत्रापि अवर्णत्वादिसामान्यस्य विद्यमानत्वादिति, तेनैतद् उक्तं भवति – अतोऽकार एवोक्तह्रस्वदीर्घप्लुतभेदभिन्नोऽष्टादशधा भिद्यते, एवमाकारोऽपि, तथैव इकारोऽपीति समानत्वं न विरुध्यते । यद् वा अवर्णादीनां सर्वेषामष्टादशधाभेदभिन्नत्वोपदर्शनेन प्रत्येकं सर्वेषां षड्भेदभिन्नत्वं सूचितमिति चेत्, तुष्यतु दुर्जनस्तथापि अकाराकारयोः साम्यं जातेर्व्यक्तेश्च अष्टादशभेदभिन्नत्वाभावात् ।
यद् वेति कृत्वा यत् सिद्धान्तितं यदा तु षड्भेदभिन्नत्वेन साम्यम् | एकारैकारयोरपि समाननिराकरणं दुरुत्तरमेव, किञ्च प्लुतस्य वर्णाभिन्नत्वादेतयोरेव षड्भेदभिन्नत्वोपदर्शनेन चरितार्थत्वात् अस्यापि प्रथमषड्भेदोपदेशनमन्याय्यम्, किञ्चाष्टादशत्वेन समानत्वाकल्पने ततश्चाष्टादशधा भिद्यतेऽवर्ण इति त्रिलोचनवचनं सुतरां विफलं स्यात्, प्राक् षड्भेदभिन्नत्वोपदर्शनेनैव चरितार्थत्वात् । अत्रोच्यते - विग्रहवाक्ये येषामिति समूहसम्बन्धे षष्ठी, स च समूहः सवर्णद्वयात्मकः । तथा च द्वादशसमुदायान्तरापेक्षया येषां सवर्णसमुदायेऽष्टादशत्वसंख्या तुल्या तेषां समानत्वमिति (द्विरुक्तवादिनः उभयमेव ) विवक्षितम्, तथा चाष्टादशभेदभिन्नसवर्णसमुदायान्तर्निविष्टतया सर्वे समाना इति न दोषः || ३|
[समीक्षा]
समान परिमाणवाले १० वर्णों की यह समानसंज्ञा अन्वर्थ है । ऋग्वेदप्रातिशाख्य में इसी अर्थ में आठ वर्णों की समानाक्षर संज्ञा की गई है - " अष्टौ समानाक्षराण्यादितः” (१।१) । इसमें लवर्ण को छोड़ दिया गया है । तैत्तिरीय प्रातिशाख्य में ९ वर्णों की समानाक्षर संज्ञा की गई है - " अथ नवादितः समानाक्षराणि” (१।३) । यहाँ
I