________________
५२
कातन्त्रव्याकरणम्
३. दश समानाः (१।१।३ )
[ सूत्रार्थ]
वर्णसमाम्नाय के अन्तर्गत जिन प्रारम्भिक १४ वर्णों की स्वरसंज्ञा की गई है, उनमें प्राथमिक १० वर्णों की समानसंज्ञा होती है || ३ |
[दु० वृ०]
तस्मिन् वर्णसमाम्नायविषये आदौ ये दश वर्णास्ते समानसंज्ञा भवन्ति । अ आ, इ ई उ ऊ, ऋ, ऋ, ऌ ॡ । समानप्रदेशाः - “समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१।२।१) इत्येवमादयः ।। ३ ।
[दु० टी०]
दश । उदात्तानुदात्तसमाहारसानुनासिकनिरनुनासिकभेदादष्टादशधा भिद्यतेऽवर्णः, तथा इवर्णादयोऽपीति । इवर्णः, उवर्णः, ऋवर्णः, ॡवर्णश्चेत्यतः समानं तुल्यं मानं परिमाणं येषामिति समानाः सिद्धाः । लृकारस्य समानसंज्ञया किं प्रयोजनम् - कल्पनं क्लृपू, सम्पदादित्वाद् भावे क्विप् । कलायाः क्लृप् कलाक्लृपू, तामकार्षीदिति इनि अन्त्यस्वरादिलोपे सत्युपधायाश्च ह्रस्वोऽभ्यासस्य सन्वद्भावो न भवति समानलोपत्वाद् अचकलाकदिति प्रयोगविवक्षायां पुनर्हृकारात् समानात् दीर्घात् परलोपः फलम् । ‘कृकारः, क्लृकारः' इति । समानानामेव हि द्वौ द्वौ सवर्णौ तयोश्च पूर्वो ह्रस्वः परो दीर्घ इति चोपपद्यते ||३|
[वि० प० ]
दश | ननु परस्परविलक्षणमाकारं बिभ्राणाः कथमकारादयः समानपरिमाणाः, येन समानं मानं तुल्यं परिमाणमेषाम् इत्यन्वर्थः कथ्यते ? सत्यम्, उदात्तानुदात्तसमाहारभेदात् त्रयस्तावदकारादयः, पुनश्च सानुनासिकनिरनुनासिकभेदादेव द्विप्रकारा भवन्ति । केचिद् उदात्तानुदात्तसमाहाराः सानुनासिकाः केचिन्निरनुनासिका इत्यकारः षोढा भिद्यते । एवं दीर्घप्लुतयोरपि प्रत्येकं भेदो वक्तव्यः । ततश्चाष्टादशधा भिद्यतेऽवर्णः, तथा इवर्णादयोऽपीति सिद्धोऽन्वर्थः ॥ ३ ॥
[क० च०]
दश | संख्यैवात्र मानं मतं न तु बृहत्त्वादि, असंभवात् । अत एव निर्देशात् समानस्य सभावो लोकोपचाराद् वा ।