________________
४३८
साहित्यदर्पणः।
[ षष्ठः
३३० योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यापि । अब आमुखे । उद्धात्यकावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि । नखकुट्टस्त्वाह"नेपथ्योक्तं श्रुतं तत्र आकाशवचनं तथा । समाश्रित्यापि कर्त्तव्यमामुखं नाटकादिषु ॥"इति ।
३३१ एषामामुखभेदानामेकं कश्चित्प्रयोजयेत् ॥ ३३६ ॥
तेनार्थमथ पात्रं वा समाक्षिप्यैव सूत्रधृक् । प्रस्तावनाऽन्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत् ॥ ३३७ ॥
एवं पञ्चविधां प्रस्तावना लक्ष्यलक्षणाभ्यां निरूप्य चारुत्वातिशयाय कर्त्तव्यान्तरमुपदिशति ३३० योज्यानी. त्यादिना ।
३३० अत्रास्मिन् प्रभेदे प्रस्तावनाऽपरपर्साये आमुखे इति भावः । इतराणि उद्घात्यकावलगिताभ्यां भिन्नायर्थः । अपि 'किं पुनरुद्धात्यवलगिते एवेति शेषः । यथालाभं यथासम्भवम् । वीथ्यडानि वीथ्या वक्ष्यमाणलक्षणस्य रूपकविशेषस्याङ्गानि भागाः इति तथोक्तानि । योज्यानि । यद्यपि-उद्धात्यकावलगिते प्रस्तावनाविशेषात्मना निरूपितपूर्वे एव, तथाऽपि एते वीथ्यङ्गे एव, तस्मात्-परत्र कथोद्धातादौ प्रस्तावनाभेदत्रये ते सूचयितुं शक्ये, किन्तु-अत्रापि, उद्घात्यकेऽवलगिते वा प्रस्तावनाभेदे उद्घात्यकमवलगितं वा वीथ्यङ्गं, तथा, प्रपञ्च-त्रिगत-च्छलवाकेल्य-धिवल-गण्डा-वस्यन्दित-नालिका-ऽसत्प्रलाप-व्याहार-मार्दवाख्यानि एकादशापराण्यपि वीथ्यङ्गानि यथासम्भवं सम्पाद्यानि। कथोद्धातादौ तु उद्धातकावलगिते अपि, न चैषामावश्यकी स्थितिरपेक्षिता, यथालाभमित्यस्य तत एव खारस्यात् । एवं च-यत्र उद्धात्यकादौ उद्धात्यादिनिवेशः स्यात्तत्तस्य चारुत्वमतिशाययति, न तं विना स्वरूपच्युति. रित्यावेद्यते । इति ।
सूत्रस्थाना कठिनार्थानां पदाना दुर्बोधतां परिहरति-अत्रेत्यादिना । स्पष्टम् । अत्राचार्यान्तरमतं दर्शयितुमाह-नखकुट्टस्त्वित्यादिना । नखकुट्टस्तदाख्य आलङ्कारिकः । तु । आह-"नेपथ्योक्तं..."इत्यादिना ।
“तत्र तेषु निरुक्तलक्षणेषु प्रसिद्धेषु वा। नाटकादिषु । नेपथ्योक्तं नेपथ्ये जवनिकाऽन्तरुक्कं तत्तथोक्तम् । "नेपथ्यं स्याजवनिका रङ्गभूमिः प्रसाधनम् ।" इत्यजयः । तथा । आकाशवचनमाकाशे वचनं तत् । भुतम् । समाश्रित्य । अपि 'अन्यथा तु निर्दिष्टदिशा क्रियत एव, किन्विति शेषः । आमुखं समन्तान्मुखं द्वारमिति तथोक्तम्, प्रस्तावनेति भावः । कर्तव्यम् । यथाऽन्याः पञ्च तथेयमपि द्विविधा प्रस्तावना कार्य्या, एका मेपथ्यभाषितमूला, द्वितीयाऽऽकाशभाषितमूला च । इति भावः ॥"इति ।
एवं प्रस्तावना निर्दिश्यासां व्यवस्थां निर्दिशन् कर्त्तव्यान्तरमुपदिशति-३३१ एषामित्यादिना।
३३१ एषां निरुक्तलक्षणानाम् । आमुखभेदानां प्रस्तावनाभेदानां मध्ये । एकम् , 'न तु द्वौ ततो वाऽधिकान् आमुखभेदा'निति शेषः । कश्चित् । प्रयोजयेत् । अथ । सूत्रधृक् उपचारात् तत्सदृशो नटः । तेन प्रयुक्तेनामुखेनेति भावः (साधने तृतीयेयम् ) । अर्थमितिवृत्तम् । पात्रम् । वा ।समाक्षिप्य सूचयित्वा । एव । प्रस्तावनाऽन्ते । निर्गच्छेत् । रङ्गभूमितो जवनिकान्तः प्रविशेदिति भावः । ततस्तदनन्तरम् । वस्तु वर्णनीयमितिवृत्तमिति भावः । प्रयोजयेत् । अयम्भावः-पश्चस्वभिहितासु प्रस्तावनास्वेकामेव कामपि प्रस्तावनां विदध्यात्, यदि तु गर्भाको विधेयः, तदा तु तस्मिन् अङ्के प्रस्तावना विधेयैव, अन्यथा गर्भावत्वानुपपत्तिः, यथा-बालरामायणे तृतीयेऽङ्के गर्भाकः, तत्र च प्रस्तावना, तस्याश्च समाप्तौ विधीयमानायां कमप्यर्थ कस्यचिद्वा पात्रस्य प्रवेशं सूचयित्वा सूत्रधारादीनां निष्क्रमणं विधेयम् । एवं पुनस्तस्यां समापितायां प्रतिपाद्यमितिवृत्तं निरूपयेत् । इति ॥ ३३६ ॥ ३३७ ॥