________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
यथा"आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः । उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव सम्भृतबन्धुजीवः ॥ २३४ ॥" ततः प्रविशति यथानिर्दिष्टो रामः]
२३९ यत्रैकत्र समावेशात् कार्यमन्यत्प्रसाध्यते ।
प्रयोगे खलु तज्ज्ञेयं नाम्नाऽवलगितं बुधैः ॥ ३३५ ॥ यथाऽभिज्ञानशाकुन्तले, सूत्रधारको नटी प्रति"तवास्मि गीतरागेण हारिणा प्रसभं हतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥२३६॥ इति ।
ततो राज्ञः प्रवेशः।
स्येति भावः । च। तदाश्रयः तत्कालवर्णनमाश्रयो यस्य तादृशः । प्रवेशः । तत् । प्रवर्तकम् । 'प्रस्तावना' इति शेषः । अयम्भावः-यत्र कमपि ऋतुं प्रकृत्य यदर्णितं तदेवाथित्य पात्रं प्रवृष्टं स्यात्तत्प्रवर्तक नाम प्रस्तावना । इति ॥ ३३४ ॥
उदाहरति-यथेत्यादिना ।
यथा। .. "आसादितप्रकटनिर्मलचन्द्रहासः। विशुद्ध कान्तिः । सम्भृतबन्धुजीवः। एषः । शरत्समयः । गाढतमसम् । उग्रम् । घनकालम् । रामः । दशास्यम् । इव। उत्खाय । प्राप्तः॥२३४॥" ततः । यथानिर्दिष्टः 'रामो दशास्यमिवेत्यादिमा । यथा सूचितस्तथाभूत इति भावः । रामः। प्रविशति ।
शरदं वर्णयता सत्रधारकेण रामसादृश्यमुद्भाव्य शरद इव रामस्य प्रवेशः सचित इति प्रवर्तकं नामेयं प्रस्तावना। यथा वा बालरामायणे तृतीयेऽके गर्भाङ्के (नेपथ्ये गीयते ) "प्रकटितरामाम्भोजः कौशिकवान् सपदि लक्ष्मणानन्दी । सुरचापल्मनहेतोरयमवतीर्णः शरत्समयः ॥ कोहल: ( तन्नामा नटः )-कथमुपक्रान्तं भरतपुत्रैः, यदियं रामलक्ष्मणानुगतस्य भगवतो विश्वामित्रस्य प्रावेशिकी ध्रुवा । तदहमनन्तरकरणीयाय सज्जो भवामि ( इति निष्कान्त: प्रस्तावना)।" इति ।।
३२९ यत्र यस्मिन् । एकत्र एकस्मिन् । प्रयोगे कार्योद्यमे । समावेशात् सादृश्योद्भावनात् । ल्यबर्थेयं पञ्चमी । अन्यत् । कार्यम् । प्रसाध्यते सम्पाद्यते । तत् । 'कार्य'मिति शेषः । नाम्ना । अवलगितं तदाख्यः प्रस्तावनाविशेषः । बुधैः सहृदयैः । ज्ञेयम् । खलु । यस्य कस्यापि प्रस्तुतस्य कार्य्यस्य सादृश्यमुद्भाव्य यत्र पात्र.. प्रवेशरूपं कार्य सम्पाद्यते तत्तत्रावलगितत्वात् अवलगितं नाम प्रस्तावनाऽङ्गमिति भावः ॥ ३३५॥
उदाहरति-यथेत्यादिना।
यथा। अभिज्ञानशाकुन्तलेऽभिज्ञानेन शाकुन्तलं शकुन्तलासम्बन्धि चरितमिति तत्र, उपचारात् तदुपजीव्य श्रीकालिदासमहाकविना रचिते नाटके इति भावः । सूत्रधारकः स्थापको नटः । नटीम् । प्रति। “अति' रंहसाऽत्यन्तशालिनेत्यर्थः । सारड्रेण मृगेण । एषः । राजा। दुष्यन्तः। इव । तव । हारिणा मनोहारिणा । गीतरागेण । प्रसभं । हतः । अस्मि ॥ २३६॥” इति ।
ततः तदनन्तरम् । राज्ञो दुष्यन्तस्येत्यर्थः । प्रवेशः। इदमुक्तम्-नटीकृतमृतुवर्णनमुपजीव्य गानं निशम्य तदभिनन्दता स्थापकेन सूत्रधारकेण 'एष राजेवेति सादृश्यमुद्भाव्य 'एष'इति पात्रप्रवेशः सूचितः, तस्मात् प्रस्तावनेय-. मवलगिताख्या । यथा वा, मालविकाग्निमित्रे सूत्रधारक:-"शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् । देव्या इव धारिण्याः सेवादक्षः पारीजनोऽयम् ॥” इति । अत्र हि देव्याः सादृश्यमुद्भाव्य खनिष्क्रमणमभिलषता सूत्रधारकेण तत्प्रवेशः सूचितः । इति ।