________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
१६३ "आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाऽग्रे नयनं, तदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते,
तद् ब्रूयाः सखि ! योगिनी किमसि भोः किंवा वियोगिन्यसि ॥२०५ ॥" इत्यत्र तु आहारे'इति विषयसप्तम्याः, 'समस्त इति ‘परा'इति च विशेषणस्य, 'मौनं चेदम्'
इति प्रत्ययपरामर्शिनः सर्वनाम्नः 'आभाति' इत्युपसर्गस्य, 'सखि !' इति प्रणयस्मारणस्य, 'असि भोः!' इति सोपहासस्य, 'किंवा' इत्युत्तरपक्षदाढर्यसूचकस्य 'वे'ति शब्दस्य ‘असि' इति वर्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहदयसंवेद्यम् ।
- वर्णरचनयोरुदाहरिष्यते, प्रबन्धे यथा-महाभारते शान्तः, रामायणे करुणः, मालतीमाधव. रत्नावल्यादौ शृङ्गारः । एवमन्यत्र । ___ एवं प्रकृत्यादीनां व्यञ्जकत्वमुदाहृत्य विभक्त्यादीनां व्यञ्जकत्वमुदाहरति-"आहारे"...इत्यादिना ।
___"हे सखि ! आहारे भोजनक्रियायाम् । 'तवे'ति शेषः । विरतिः रागाभावः । समस्तविषयग्रामे समस्ता विषया भोगास्तेषां ग्रामः समूहस्तत्र । पराऽतिशयिता । निवृत्तिः पराङ्मुरवत्वम् । 'तवे'ति शेषः । नासाऽग्रे । नयनं दृष्टिः । यत् । च । एकतानम् एकाग्रम् । तत् । एतत् । अपरम् । मनः । 'तवे'ति शेषः । इदम् । च । मौनम् । इदम् । च । विश्वं समस्तो लोकः । शून्यम् । अधुना। ते तव । यत् यतः । आभाति प्रतिभासते। तत् तस्मात् । ब्रयाः कथय । भो भवति । किम। योगिनी योगनिरता। असि ? किं वा । वियोगिनी विप्रकृष्टपतिका । अखि? विरहिणीमुपहसन्त्याः सख्या उक्तिरियम् । शार्दूलविक्रीडितं वृत्तम् ॥२०५॥"
अत्र पूर्वापेक्षया वैशिष्टयं दर्शयति-इत्यत्र त्वित्यादिना।
इत्यत्र 'उदाहृते पद्य' इति शेषः । तु । 'आहार'इति 'पदे' इति शेषः । विषयसप्तम्याः आहारविषयकरागाभावव्यजकत्व'मिति शेषः । तथा च-'नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।' इत्युक्तदिशा योगिन्या न सर्वथाऽऽहाराभावस्तव तु सर्वथैवेति वियोगिन्येवासीति व्यज्यत इति निष्कर्षः । 'समस्त'इति 'अस्येति शेषः । 'परा'इति 'अस्येति शेषः । च । विशेषणस्य 'विषयमात्रस्य याथाऽऽत्म्येन व्यञ्जकत्व'भिति शेषः । तथा चयोगिन्या योगसाधने यदच्छयोपस्थिते च सति विषये प्रवृत्तिरिति वियोगिन्येवासीति व्यज्यते इति हृदयम् । मौनम् । 'चेदम्'इति 'अत्रे'ति शेषः । प्रत्ययपरामार्शिनः प्रत्ययस्य मौनावस्थाऽनुभवस्य परामर्शी प्रणिधाता तादृशस्य । सर्वनाम्नस्तत्सज्ञकस्येदंशब्दस्येत्यर्थः । 'मौनस्य सर्वात्मना सर्वकालसम्भववित्वप्रत्यायकत्व'मिति शेषः । तथा चयोगिन्या मौनेऽपि इङ्गितादिनाऽर्थबोधकता, मौनस्य च सर्वकालिकत्वाभाव इति वियोगिन्येवासीति व्यज्यते इति निर्गलितोर्थः । 'आभाति'इति 'अत्रे'ति शेषः । उपसर्गस्याङपसर्गस्य । 'शून्यतायाः सर्वात्मना प्रत्यायकत्व मिति शेषः । तथा च-योगिन्या विज्ञानानुपदं जगति शून्यत्वं न सर्वात्मना; तदानीं ब्रह्मस्फूतरपि सम्भवात् । इति वियोगिन्येवासीति व्यज्यते इति सूचितम् । 'सखि'इति 'अनेने ति शेषः । प्रणयस्मारणस्य 'स्वानुरक्ते प्रणयसद्भावद्योतकता'इति शेषः । तथा च-योगिन्याः प्रणयाभावो भवतीति वियोगिन्येवासीति व्यज्यत इति निष्कृष्टोऽर्थः । 'असि भोः।' इति 'अनेनेति शेषः । सोपहासस्योपहासपूर्वकस्याभिधानस्य 'योगिनीचेष्टितव्यञ्जकत्व'मिति शेषः । तथा च-योगिनीव दूरात् प्रतोयसे न सर्वथा तथाभूताऽसीति ध्वनितोर्थः । 'किंवा' इति 'अत्रे'ति शेषः । उत्तरपक्षदाढयंसूचकस्य 'वा' इति 'निपातरूपस्थति शेषः । शब्दस्य । 'उत्तरपक्षदाढयव्यञ्जकत्व'मिति शेषः । तथा च-योगिनी नासि, किन्तु वियोगिन्येवासि इति सूच्यते। 'असि' इति 'अस्येति शेषः । वर्तमानोपदेशस्य 'योगिनीत्वभ्रान्तिनिवृत्तिव्यजकत्व'मिति शेषः । च । 'इत्येव'मिति शेषः । तत्तद्विषयव्यञ्जकत्वम्। सहदय. संवेद्यम् 'नतु सहृदयेतरैरपि संवेद्य'मिति शेषः ।
अथ वर्णरचनयोरसंलक्ष्यक्रमव्यङ्गयत्वमनुदाहृत्य प्रबन्धगतत्वेन तदुदाहरनाह-वर्णेत्यादि ।
वर्णरचनयोर्वर्णो माधुर्ष्यादिव्यञ्जक-टठादिभिन्नः स च, रचना पदविन्यासरूपा वैदादिरूपा च, इति तयोः 'असंलक्ष्यक्रमव्यङ्गयत्वमष्टमे नवमे च परिच्छेदे' इति शेषः । उदाहरिष्यते । प्रबन्धे । 'पुनरसंलक्ष्यक्रमव्यङ्गयत्व'