________________
દવન્યાલોક __१३.७ सङ्करालङ्कारेऽपि यदालङ्कारोऽलङ्कारान्तरच्छायामनुगृह्णाति, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् । अलङ्कारद्वयसम्भावनायान्तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनीभावेन व्यङ्गयस्य तत्रावस्थानं तदा सोऽपि ध्वनिविषयोऽस्तु, न तु स एव ध्वनिरिति वक्तुं शक्यम्, पर्यायोक्तनिर्दिष्टन्यायात् । अपि च सङ्करालङ्कारेऽपि च क्वचित् सङ्करोक्तिरेव ध्वनिसम्भावनां निराकरोति'।
१३.८ अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावानिमित्तनिमित्तिभावाद्वाभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धस्तदा' अभिधीयमानप्रतीयमानयोः सममेव प्राधान्यम् । यदा तावत् सामान्यस्याप्रस्तुतस्य अभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतो सत्यामपि प्राधान्येन "तत्सामान्येनाविनाभावात् सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्यनिष्ठत्वं तदापि सामान्यस्य प्राधान्ये, सामान्ये सर्वविशेषाणामन्तर्भावाद् विशेषस्यापि प्राधान्यम् । निमित्तनिमित्तिभावे चायमेव न्यायः ।
यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकृतयोः सम्बन्धस्तदाप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः । इतरथा त्वलङ्कारान्तरमेव । १३.९ तदयमत्र संक्षेपः ।
'व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः ॥ व्यङ्ग्यस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा । न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ॥ तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ।।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥ तस्मान्न ध्वनेरन्तर्भावः।
इतश्च नान्तर्भावः । यतः काव्यविशेषोऽङ्गी ध्वनिरिति कथितः । तस्य पुनरङ्गानि अलङ्कारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्भूतोऽवयवीति १. 'तत्रापि व्यवस्थानम्' नि०, दी। २. 'सकरालङ्कारस्य सङ्करोक्तिरेव ध्वनिसम्भावनां करोति' निः । ३. 'अभिधीयमानस्य अप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धस्तदा' मे20 ५६ नि०i नथी. ४. 'तस्य' नि० दी०।
५. कार्यकारणभावे' दी। ૬. આ ત્રણ શ્લોકો સંગ્રહ કે પરિકર શ્લોક છે. કારિકાઓ નથી. તેના પર 'વૃત્તિ’ નથી. નિદીવ્યાં તેને
કારિકા ગણી ૧૪, ૧૫, ૧૬ સંખ્યા લખી છે.