________________
___ - -वन्यास काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥५॥ 'विविधवाच्यवाचकरचनाप्रपञ्चचारुणः काव्यस्य स एवार्थः सारभूतः । तथा चादिकवेर्वाल्मीकेनिहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः ।
___ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमधीः काममोहितम् ।। शोको हि करुणरसस्थायिभावः प्रतीयमानस्य चान्यभेददर्शनेऽपि रसभावमुखेनैवोपलक्षणं प्राधान्यात् ।
सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् । अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥६॥ तत् वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोकसामान्यं प्रतिभाविशेष परिस्फुरन्तम् अभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा एव वा महाकवय इति गण्यन्ते ॥६॥ इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥७॥ सोऽर्थो यस्मात् केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते । यदि च वाच्यरूप एवासावर्थः स्यात्, तद् वाच्यवाचकस्वरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिवाप्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः ॥७॥ एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति
सोऽर्थस्तव्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थो महाकवेः ॥८॥ १. सही मने पले छे. न०i 'विविध' भने 'वाच्य' नी वरये 'विशिष्ट' २७६
छ. 'तथा चादिकवेर्वाल्मीके' मेट सी नथी. 'निहतसहचरी' ने स्थाने 'सन्निहितसहचरी' 451-1२ छे. 'अन्यभेद' या 'अन्यप्रभेद' ५ छ. 'प्रतीयमान एवेति प्रतिपादितम्' मेटो, वधारे छे. यासप्रिया संस्७२एमा ‘मा निषाद' वगेरे भूजम नयी. सोयनमा तेनी व्याच्या नथी. हातिम ‘सहचरी' ने स्थाने 'सहचर' तथा 'क्रौञ्चाक्रन्द' ने स्थाने 'क्रौञ्च्याक्रन्द' छे. २.नि.भ'तु' नेस्याने '
हिछे. ३. 'शब्दार्थशासनज्ञानमात्रेऽपि परुं न वेद्यते' २८ शोमinwi वायनाले वधु छे. ४. नि० प्रगीतानां।