________________
. .- पन्या क्वचिद् वाच्ये विधिरूपेऽनुभयरूपो यथा
बच्च मह ब्विअ एक्के इहोन्तु णीसास रोइअव्वाई । ___मा तुज वि तीअ विणा दक्खिण्ण हअस्स जाअन्तु ।। (व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥ इति च्छाया) क्वचिद् वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा
दे आ पसिअ णिवत्तसु मुहससि जोलाविलुत्ततमणिवहे ।
अहिसारिआण विग्धं करोसि अण्णाणं वि हआसे ।। (प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥ इति च्छाया) ४.५ क्वचिद् वाच्याद् विभिन्नविषयत्वेन व्यवस्थापितो यथा
कस्स व ण होइ रोसो दद्दूण पियाएँ सव्वणं अहरम् ।
सभमरपउमग्याइणि वारिअवामे सहसु एह्निम् । (कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्याघ्रायिणि वारितवामे सहस्वेदानीम् ॥ इति च्छाया)
अन्ये चैवंप्रकाराः वाच्याद् विभेदिनः प्रतीयमानभेदाः सम्भवन्ति । तेषां दिङ्मात्रमेतत् प्रदर्शितम् । द्वितीयोऽपि प्रभेदो वाच्याद् विभिन्नः सप्रपञ्चमग्रे दर्शयिष्यते ।
४.६ तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः प्रकाशते, न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद् विभिन्न एव । तथा हि, वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात्, विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः । न च सर्वत्र तेषां स्वशब्दनिवेदितत्वम् । यत्राप्यस्ति तत्, तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः। स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता । विषयान्तरे तथा तस्या अदर्शनात् । न हि केवलं श्रृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यतश्च स्वाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशिष्टेभ्यो रसादीनां प्रतीतिः । केवलाच्च स्वाभिधानादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथञ्चित् । इति तृतीयोऽपि प्रभेदो वाच्याद् भिन्न एवेति स्थितम् । वाच्येन त्वस्य सहेव प्रतीतिरग्रे दर्शयिष्यते ॥४॥
१. सहैव नि०।