________________
ધ્વન્યાલોક
काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया स्थितः सहृदयश्लाघ्यो योऽर्थः, तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ॥२॥ तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः । बहुधा व्याकृतः सोऽन्यैः,
७६
'काव्यलक्ष्मविधायिभिः ।
ततो नेह प्रतन्यते ॥ ३॥ केवलमनूद्यते पुनर्यथोपयोगम् ||३||
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥४॥
४.१ प्रतीयमानं पुनरन्यदेव वाच्यात् वस्त्वस्ति वाणीषु महाकवीनाम् । यत् तत् 'सहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यमिवाङ्गनासु । यथा ह्यङ्गनासु लावण्यं पृथङ् निर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः ।
४.२ स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रम्, अलङ्काररसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् । तथा हि, आद्यस्तावत् प्रभेदो वाच्याद् दूरं विभेदवान् । स हि कदाचिद् वाच्ये विधिरूपे प्रतिषेधरूपः । यथा
४.३
भम धम्मिअ बीसत्थो सो सुनओ अज्ज मारिओ देण । गोलाइ कच्छकुडंगवासिणा दरिअ सीहेण || धार्मिक 'विस्रब्धः स शुनकोऽद्य मारितस्तेन । “गोदानदीकच्छकुञ्जवासिना दृप्तसिंहेन । इति च्छाया) ४.४ क्वचिद् वाच्ये प्रतिषेधरूपे विधिरूपो यथा
( भ्रम
अत्ता एत्थ णिमज्जइ एत्थ अहं दिअसअं पलोएहि । मा पहिअ रत्ति अन्धअ सेज्जाए मह णिमज्जहिसि ॥
( श्वश्रूत्र निमज्जति अत्राहं दिवसकं प्रलोकय ।
मा पथिक रात्र्यन्धक शय्यायां मम निमंक्ष्यसि ॥ इति च्छाया)
१. नि० ही०मां 'काव्यलक्ष्मविधायिभिः' ने रामने 'ततो नेह प्रतन्यते' ने वृत्ति गरोस छे. लोयन
પ્રમાણેનો આચાર્ય વિશ્વેશ્વરનો પાઠ સ્વીકારેલ છે.
४. विश्रब्धः नि० ।
२. सहृदयहृदयसुप्रसिद्धम् नि०, दी० । ५. गोदावरीनदीकूललतागहनवासिना लो० । ६. आवयोर्मांक्षीः नि०, दी० । 'गाथासप्तशती' 'गाथा सप्तशती' मां नीचे मुभम कुद्दो पाठ छे. एत्थ निमज्जइ अत्ता एत्थ अहं परिअणो सअलो। पन्थिय रत्तीअन्धअ मा मह सअणे निमज्जहिसि ॥ छाया - अत्र निमज्जति श्वश्रूरवाहमत्र परिजनः सकलः । पथिक रात्र्यन्धक मा मम शयने निमंक्ष्यसि ॥
गाथासप्तशती ७, ६७
३. अलङ्कारा रसादयश्च नि० ।