________________
૨૯૦
ધ્વન્યાલોક
किञ्च, उक्तिवैचित्र्यं यत्काव्यनवत्वे' निबन्धनमुच्यते तदस्मत्पक्षानुगुणमेव । यतो यावानयं काव्यार्थानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्तिवैचित्र्याद् द्विगुणतामापद्यते । यश्चायमुपमाश्लेषादिरलङ्कारवर्गः प्रसिद्धः स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानवधिर्धत्ते पुनः शतशाखताम् । भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमापादयति । यथा ममैव
'महमह इत्ति भणन्तउ वज्जदि कालो जणस्स । तोइ ण देउ जणद्दण गोअरी भोदि मणसो ॥
(मम मम इति भणतो व्रजति कालो जनस्य ।
तथापि न देवो जनार्दनो गोचरीभवति मनसः ॥ इति च्छाया) “इत्थं यथा यथा निरूप्यते तथा तथान लक्ष्यतेऽन्तः काव्यार्थानाम् ||७|| - इदन्तूच्यते,
अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् ।
यत् प्रदर्शितं प्राक्, भूम्नैव दृश्यते लक्ष्ये,
६न तच्छक्यमपोहितुम्,
तत्तु भाति रसाश्रयात् ॥८॥ तदिदमत्र संक्षेपेणाभिधीयते सत्कवीनामुपदेशायरसभावादिसम्बद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ ९ ॥ तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् ।
वाचस्पतिसहस्त्राणां सहस्रैरपि यत्नतः । निबद्धापि क्षयं नैति प्रकृतिर्जगतामिव ॥ १० ॥
यथा हि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती पुनरिदानीं 'परिक्षीणापरपदार्थनिर्माणशक्तिरिति न शक्यतेऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते ॥१०॥
२. 'अलङ्गारमार्ग : ' नि० ।
१. 'काव्यनवत्वेन' नि० । ३. 'कथाभेदेन' नि० । ४. ' बहुमह इन्ति भणिन्तउ वं ओई कलिजणस्स ते इणदे । ओ जाणइणुओगो अरिमो तिमिणं..... सा इत्थम् ||' निर्णयसागर आवृत्तियां भावो पाठ छे तथा छायानुवाद नथी.
५. नि. मां 'इत्थं' यह नथी.
६. नि. भां 'भूम्नैव दृश्यते लक्ष्ये न तच्छक्यं व्यपोहितुम्' ने अरिङानो उत्तरार्ध गएयो छे भने 'तत्तु भाति रसाश्रयात् ' ने वृत्ति मानी छे.
७. 'परिक्षीणापदार्थनिर्माणशक्तिरिति नि० ।